पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 133 ) राजा---(संभ्रमादरगर्भम् ) स्वागतं भवत्यै । (पार्श्वमवलोक्य ) भद्रे। न तथा नन्दयसि मां सरख्या विरहिता तया । संगमे दृष्टपूर्वेव यमुना गङ्गया यथा १५ ॥ चित्रलेखा--ननु प्रथमं मेघराजिर्द्दश्यते, पश्चाद्विद्युल्लता । विदूषकः-( अपवार्य ) कथं नैषोर्वश्युपगता । तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् । राजा--एतदासनमास्यताम् । चित्रलेखा---उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति । राजा-किमाज्ञापयति ? चित्रलेखा---मम तस्मिन्सुरारिसंभवे दुर्नये महाराज एव शरण- मासीत् । सांप्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्बाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि । राजा--अयि सखि, पर्युत्सुकां कथमसि प्रियदर्शनां ता- मार्ति न पश्यसि पुरूरवसस्तदर्थाम् । साधारणोऽयमुभयोः प्रणये स्मरन्य तप्तेन तप्तमयसा घटनाय योग्यम् ॥ १६ ॥ चित्रलेखा-( उर्वशांमुपेत्य ) सखि, इत एहि । निभृततर भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता । उर्वशी--(तिरस्करिणीमपनीय ) अयि अनवस्थिते. लघ्वेव त्वया परित्यक्तास्मि । चित्रलेखा-(सस्मितम् ) एतस्मिन्मुहूर्ते ज्ञास्यामि का का त्यक्ष्यतीति । आचारं तावत्प्रतिपद्यस्वं ।