सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 120 ) बालः—कुत्र ? देह्येतत् । (इति हस्तं प्रसारयति ।) राजा-(वा, सविस्मयम्) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते तथा ह्यस्य- प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६ ॥ द्वितीया-सुव्रते, न शक्य एष वाचामात्रेण विरमयतुम् गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्योपहर । प्रथमा-तथा। (इति निष्कान्ता।) बालः–अनेनैव तावत्क्रीडिष्यामि । (इति तापसी विलोक्य हसति।) राजा-स्पृहयामि खलु दुर्ललितायास्मै । आलक्ष्यदन्तमुकुलाननिमित्तहासै- रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥ तापसी-भवतु । न मामयं गणयति । (पार्श्वमवलोकयन्ती) कोऽत्र ऋषिकुमाराणाम् ? ( राजानमवलोक्य ) भद्रमुख, एहि तावत् ।। मोचयानेन दुर्मोकहस्तग्रहण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । राजा-(उपगम्य सस्मितम् ) अयि भो महर्षिपुत्र,