( 109 ) उभौ-प्रक्शित्वावुत्तः स्वामिप्रसादाय । ( इति निष्क्रान्तः श्यालः।) प्रथमः-जानुक, चिरायते खल्वावुत्तः । द्वितीयः-नन्ववसरोपसर्पणीया राजानः । प्रथमः----जानुक, प्रस्फुरतो मम हस्तावस्य वधार्थ सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति ।) पुरुषः--नार्हति भावोऽकारणमारणं भावयितुम् । द्वितीयः--( विलोक्य ) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते । गृध्रबलिर्भविष्यसि, शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य । ) श्यालः-सूचक, मुच्यतामेष जालोपजीवी । उपपन्नः खल्वङ्गुलीयस्यागमः । सूचकः-यथावुत्तो भणति । द्वितीयः-एष यमसदनं प्रविश्य प्रतिनिवृत्तः । ( इति पुरुषं परि- मुक्तबन्धनं करोति ।) पुरुषः-(श्यालं प्रणम्य) भर्तः, अथ कीदृशो म आजीवः ? - श्यालः-एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति ।) पुरुषः-(सप्रणामं प्रतिगृह्य ) भर्तः, अनुगृहीतोऽस्मि । सूचकः---एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रति- ठापितः । जानुकः--आवृत्त, परितोषं कथय । तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/११५
दिखावट