सामग्री पर जाएँ

महाभारतम्-05-उद्योगपर्व-084

विकिस्रोतः तः
← उद्योगपर्व-083 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-084
वेदव्यासः
उद्योगपर्व-085 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णप्रयाणे कुरुपराजयसूचकदुर्निमित्तसमुत्पत्तिः ।। 1 ।।
श्रीकृष्णस्य शुभशकुनसमुदयः ।। 2 ।।
मार्गे तत्रतत्र विपरगणाद्यश्वर्चितस्य कृष्णस्य सायाह्ने वृकस्थलाभिगमनम् ।। 3 ।।
तत्रत्यद्विजव्रजपूजितस्य कृष्णस्य तद्गृहगमनागमनपूर्वकं तान्भोजयित्वा तद्रजन्यां वृकस्थले सुखसंवासः ।। 4 ।।

जनमेजय उवाच।

5-84-1x

कथं प्रयातो दाशार्हो महात्मा मधुसूदनः।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ।।

5-84-1a
5-84-1b

वैशंपायन उवाच।

5-84-2x

तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः।
तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च ।।

5-84-2a
5-84-2b

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ।।

5-84-3a
5-84-3b

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरिता दिशः सर्वा न प्राज्ञायत किंचन ।।

5-84-4a
5-84-4b

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ।।

5-84-5a
5-84-5b

तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा।
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ।।

5-84-6a
5-84-6b

प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत ।
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ।।

5-84-7a
5-84-7b

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ।।

5-84-8a
5-84-8b

यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ।।

5-84-9a
5-84-9b

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ।।

5-84-10a
5-84-10b

संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ।।

5-84-11a
5-84-11b

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ।।

5-84-12a
5-84-12b

स शालिभवनं रम्यं सर्वसस्यसमाचितम्।
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ।।

5-84-13a
5-84-13b

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान्।
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ।।

5-84-14a
5-84-14b

नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ।।

5-84-15a
5-84-15b

उपप्लाव्यादथागम्य जनाः पुरनिवासिनः।
यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ।।

5-84-16a
5-84-16b

ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ।।

5-84-17a
5-84-17b

वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ।।

5-84-18a
5-84-18b

` ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ।।

5-84-19a
5-84-19b

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि ररावन्ति समार्जयन् ।।'

5-84-20a
5-84-20b

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ।।

5-84-21a
5-84-21b

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः।
मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत् ।।

5-84-22a
5-84-22b

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ।।

5-84-23a
5-84-23b

तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ।।

5-84-24a
5-84-24b

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्।
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ।।

5-84-25a
5-84-25b

तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ।।

5-84-26a
5-84-26b

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम् ।।

5-84-27a
5-84-27b

।। इति श्रीमन्महाभारते उद्योगपर्वमि
भगवद्यानपर्वणि चतुरशीतितमोऽध्यायः ।।

5-84-2 दैवानि कशुनानि। औत्पातिकानि अशकुनानि ।। 5-84-7 खेशरीरं छायापुरुषशरीरम् ।। 5-84-13 भवन्ति अस्मिन्निति भवने क्षेत्रम् ।। 5-84-16 उपप्लाव्यात् ग्रामात् ।। 5-84-

उद्योगपर्व-083 पुटाग्रे अल्लिखितम्। उद्योगपर्व-085