स्वेषु दारेषु संतोषः शौचं नित्यानसूयता । |
सर्वाश्रमसाधारणस्तु प्रागुदाहृतः । निष्ठा संसारसमाप्तिस्तत्प्रयोजनो नैष्ठिको मोक्षहेत्वात्मज्ञानोत्पत्तिप्रतिबन्धकप्रत्यवायपरिहाराय निष्कामकर्मानुष्ठानं कृत्स्नधर्म इत्यर्थः । आश्रमाश्च शास्त्रेषु चत्वार आम्नाताः । यथाऽऽह गौतमः--" तस्याऽऽश्रमविकल्पमेके ब्रुवते ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः ” इति । आपस्तम्बः-- "चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति" इति । वसिष्ठः चत्वार आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकास्तेषां वेदमधीत्य वेदौ वेदान्वाऽविशीर्णब्रह्मचर्यो यभिच्छेत्तमावसेत् " इति । एवं तेषां पृथग्धर्मा अप्याम्नाताः । तथा फलमप्यज्ञानामाम्नातम् । यथाऽऽह मनु:-
" श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः । |
अनुत्तमं सुखमिति यथाप्राप्ततत्तत्फलोपलक्षणार्थम् । आपस्तम्बः-"सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखं ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं वृत्तं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते " [ इति ] । गौतमः-" वर्णा आश्रमाश्च स्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति " [इति ] । अत्र शेषशब्देन भुक्तज्योतिष्टोमादिकर्मातिरिक्तं चित्रादिकर्मानुशयशब्दितमुच्यते नतु पूर्वकर्मण एकदेश इति स्थितं " कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च" इत्यत्र । भट्टैरप्युक्तम्-
"गौतमीयेऽपि तच्छेषस्तस्माच्चित्राद्यपेक्षया " इति ।
विष्वञ्चः सर्वतोगामिनो यथेष्ट चेष्टा विपरीता नरकादौ जन्म प्रतिपद्य विनश्यन्ति कृमिकीटादिभावेन सर्वपुरुषार्थेभ्यो भ्रश्यन्त इत्यर्थः । हारीतः-
"काम्यैः केचिद्यज्ञदानस्तपोभिलब्ध्वा लोकान्पुनरायान्ति जन्म ।
कामैर्मुक्ताः सत्ययज्ञाः सुदानास्तपोनिष्ठा[१] अक्षयान्यान्ति लोकान् "[इति] ।
अत्र कामनासदसद्भावनिबन्धनः फलभेदो दर्शितो भविष्य[२] पुराणे-
" फलं विनाऽप्यनुष्ठानं नित्यानामिष्यते स्फुटम् । |