पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०४५]
१९५
श्रीमद्भगवद्गीता।


वैश्यकर्म वैश्यजातेः कर्म, स्वभावजं तमउपसर्जनरजोगुणस्वभावजम् । परिचर्यात्मकं द्विजातिशुश्रूषात्मकं कर्म शूद्रस्यापि स्वभावनं रजउपसर्जनतमोगुणस्वभावजम् ॥४४॥

 श्री०टी०-वैश्यशूद्रयोः कर्माऽऽह-कृषीति । कृषिः कर्षणम् । गा रक्षतीति गोरक्षस्तस्य भावो गौरक्ष्यं पाशुपाल्यमित्यर्थः । वाणिज्यं क्रयविक्रयादि । एतद्वैश्यस्य स्वभावजं कर्म । त्रैवर्णिकपरिचर्यात्मकं शूद्रस्यापि स्वभावनं कर्म ॥ ४४ ॥

 म०टी०-तदेवं वर्णानां स्वभावजा गौणाख्या धर्मा अभिहिताः । अन्येऽपि धर्माः शास्त्रेष्वाम्नाताः । तदुक्तं भवि[१]ष्यपुराणे-

धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयलक्षणम् ।
स तु पञ्चविधः प्रोक्तो वेदमूलः सनातनः ॥
वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् ।
वर्णाश्रमस्तृतीयस्तु मौणो नैमित्तिकस्तथा ॥
वर्णत्वमेकमाश्रित्य यो धर्मः संप्रवर्तते ।
वर्गधर्मः स उक्तस्तु यथोपनयनं नृप
यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्तते ।
स खल्वाश्रमधर्मः स्याद्भिक्षादण्डादिको यथा ॥
वर्णत्वमाश्रमत्वं च योऽधिकृत्य प्रवर्तते ।
स वर्णाश्रमधर्मस्तु मौञ्ज्याद्या मेखला यथा ॥
यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।
यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥
निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते ।
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा " ॥ [ इति ] |

 अधिकारोऽत्र धर्मः । चतुर्विध धर्ममाह हारीतः-" अथाऽऽश्रमिणां पृथग्धर्मो विशेषधर्मः समानधर्मः कृत्स्नधर्मश्च" इति । पृथगाश्रमानुष्ठानात्पृथग्धर्मो यथा चातुर्वर्ण्यधर्मः । स्वाश्रमविशेषानुष्ठानाद्विशेषधर्मो यथा नैष्ठिकयायावरानुज्ञायिकचातुराश्रम्यसिद्धानाम् । सर्वेषां यः समानो धर्मः स समानधर्मो नैष्ठिकः कृत्स्नधर्म इति । नैष्ठिको ब्रह्मचारिविशेषः । यायावरो गृहस्थविशेषः । आनुज्ञायिको वानप्रस्थविशेषः । चातुराश्रम्यसिद्धो यतिविशेषः । सर्वेषामिति वर्णानामाश्रमाणां च । तत्राऽऽद्यो यथा महाभारते-

" आनृशंस्यमहिंसा चाप्रमादः संविभागिता ।
श्राद्धकर्माऽऽतिथेयं च सत्यमक्रोध एव च ॥


  1. ग. छ. ध्यत्पुरा।