महाभारतम्-04-विराटपर्व-064

विकिस्रोतः तः
← विराटपर्व-063 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-064
वेदव्यासः
विराटपर्व-065 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन द्रोणादिपञ्चरथान्प्रत्यभियानम् ।। 1 ।।


वैशंपायन उवाच।

4-64-1x

भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे।
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ।।

4-64-1a
4-64-1b

आददानश्च नाराचान्विमृशन्निषुधी अपि।
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् ।।

4-64-2a
4-64-2b

द्रौणिरुवाच।

4-64-3x

कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ।।

4-64-3a
4-64-3b

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः।
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा।
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ।।

4-64-4a
4-64-4b
4-64-4c

कर्ण उवाच।

4-64-5x

नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ।।

4-64-5a
4-64-5b

सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् ।
दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति ।।

4-64-6a
4-64-6b

पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि।
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ।।

4-64-7a
4-64-7b

अश्वत्थामोवाच।

4-64-8x

को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् ।
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ।।

4-64-8a
4-64-8b

युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात्।
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ।।

4-64-9a
4-64-9b

वैशंपायन उवाच।

4-64-10x

तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम्।
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ।।

4-64-10a
4-64-10b

ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम्।
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ।।

4-64-11a
4-64-11b

बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः ।
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ।।

4-64-12a
4-64-12b

ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ।।

4-64-13a
4-64-13b

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ।।

4-64-14a
4-64-14b

न रथानां न नगानां न ध्वजानां न वाजिनाम्।
अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् ।।

4-64-15a
4-64-15b

सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ।।

4-64-16a
4-64-16b

यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः ।
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा ।।

4-64-17a
4-64-17b

गाण्डीवस्य तु घोषेण पृथिवी समकम्पत।
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ।।

4-64-18a
4-64-18b

ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः ।
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ।।

4-64-19a
4-64-19b

संनियम्य हयानेतान्मन्दं वाहय सारथे ।
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ।।

4-64-20a
4-64-20b

पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ।।
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति।

4-64-21a
4-64-21b

विराटपुत्रो जवनान्भृशमश्वानचोदयत् ।।

4-64-22a

कर्ण उवाच।

4-64-23x

एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः।

4-64-22b

तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ।।

4-64-23a

द्रोण उवाच।

4-64-24x

नासौ भयेन निर्यातो महात्मा पाकशासनिः।
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ।।

4-64-24a
4-64-24b

यद्येनमभिसंरब्धं पुनरेवाभियास्यसि।
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ।।

4-64-25a
4-64-25b

दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः।
मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि ।।

4-64-26a
4-64-26b

क्रोशमात्रमपाक्रम्य बलमन्वानयामहे।
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ।।

4-64-27a
4-64-27b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः ।।

विराटपर्व-063 पुटाग्रे अल्लिखितम्। विराटपर्व-065