पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
[अ०६ क्ष्लो०४-५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-कदा योगारुढो भवतीत्युच्यते-

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषजते ॥
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥४॥

 यदा यस्मिंश्चित्तसमाधानकाल इन्द्रियार्थेषु शब्दादिषु कर्मसु च नित्यनैमित्तिककाम्यलौकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्वदर्शनेनाऽऽत्मनोऽकर्त्रभोक्तृपरमानन्दाद्वयस्वरूपदर्शनेन च प्रयोजनाभावबुध्द्याऽहमेतेषां कर्ता ममैते भोग्या इत्यभिनिवेशरूपमनुषङ्गं न करोति हि यस्मात्तस्मात्सर्वसंकल्पसंन्यासी सर्वेषां संकल्पानामिदं मया कर्तव्यमेतत्फलं भोक्तव्यमित्येवंरूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः, तदा शब्दादिषु कर्मसु चानुषङ्गस्य तद्धेतोश्च संकल्पस्य योगारोहणप्रतिबन्धकस्याभावाद्योगं समाधिमारूढो योगारुढ इत्युच्यते ॥४॥

 श्री०टी०-कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यत इत्यत्राऽऽह- यदा हीति । इन्द्रियार्थेषु इन्द्रियभोग्ये[१]षु शब्दादिषु तत्साधनेषु च कर्मसु यदा नानुषज्जत आसक्ति न करोति । तत्र हेतु:-आसक्तिमूलभूतान्सर्वान्भोगविषयान्कर्मविषयांश्च संकल्पान्सन्यसितुं त्यक्तुं शीलं यस्य सः, तदा योगारूढ उच्यते ॥ ४ ॥

 म०टी०-यो यदैवं योगारूढो भवति तदा तेनाऽऽत्मनैवाऽऽत्मोद्धृतो भवति संसारानर्थव्रातादतः-

उद्धरेदात्मनाऽऽत्मानं नाऽऽत्मानमवसादयेत् ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥

 आत्मना विवेकयुक्तेन मनसाऽऽत्मानं स्वं जीवं संसारसमुद्रे निमग्नं तत उद्धरेत्- उत्, ऊर्ध्वं हरेत् , विषयासङ्गपरित्यागेन योगारूढतामापादयेदित्यर्थः । न तु विषयाङ्गेनाऽऽत्मानमवसादयेत्संसारसमुद्रे मज्जयेत् । हि यस्मादात्मैवाऽऽत्मनो बन्धुर्हितकारी संसारबन्धनान्मोचनहेतुर्नान्यः कश्चिल्लौकिकस्य बन्धोरपि स्नेहानुबन्धेन बन्धहेतुत्वात् । आत्मैव नान्यः कश्चित् , रिपुः शत्रुरहितकारी विषयबन्धनागारप्रवेशात्कोशकार इवाऽऽत्मनः स्वस्य । बाह्यस्यापि रिपोरात्मप्रयुक्तत्वाद्युक्तमवधारणमास्मैव रिपुरात्मन इति ॥ ५॥

 श्री०टी०-अतो विषयासक्तित्यागे मोक्षं तदासक्तौ च बन्धं पर्यालोच्य रागादिस्वभावं त्यजेदित्याह-उद्धरेदिति । आत्मना विवेकयुक्तेनाऽऽत्मानं संसारादुद्धरेत्, न त्ववसादयेदधो न नयेत् । हि यस्मादात्मैव मनःसङ्गाघु[२]परत आत्मनः स्वस्य बन्धुरुपकारको रिपुरपकारकश्च ॥ ५ ॥


  1. ख. ग. घ. ङ. च. छ. ज. भोगेषु ।
  2. क. ख. अ. 'झादुप।