महाभारतम्-04-विराटपर्व-053

विकिस्रोतः तः
← विराटपर्व-052 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-053
वेदव्यासः
विराटपर्व-054 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम् ।। 1 ।।





वैशंपायन उवाच।

4-53-1x

ततः सुदर्शनं नाम प्रासादं हरिवाहनः ।
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ।।

4-53-1a
4-53-1b

स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् ।
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ।।

4-53-2a
4-53-2b

आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ।।

4-53-3a
4-53-3b

तथा चित्राणि छत्राणि दिव्यरूपाणि भारत ।
मणिरत्नविचित्राणि नानारूपाणि भागशः ।
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ।।

4-53-4a
4-53-4b
4-53-4c

अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च।
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च।।

4-53-5a
4-53-5b
4-53-5c

काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः।
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ।।

4-53-6a
4-53-6b

तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते ।
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ।।

4-53-7a
4-53-7b

दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ।
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ।।

4-53-8a
4-53-8b

प्रजानां पतयः सप्त सप्त चैव महर्षभः।
तत्र देवर्षयश्चैव देवराजं दिवौकसः ।
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ।।

4-53-9a
4-53-9b
4-53-9c

न पङ्को न रजस्तत्र प्रविवेश कथंचन ।
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ।।

4-53-10a
4-53-10b

दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति।
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ।।

4-53-11a
4-53-11b

तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् ।
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ।।

4-53-12a
4-53-12b

तत्र राजर्षयश्चैव समारुह्य दिवौकसः ।
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ।।

4-53-13a
4-53-13b

नृगो ययातिर्नहुपो मान्धात भरतः कुरुः ।
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ।।

4-53-14a
4-53-14b

डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा।
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ।।

4-53-15a
4-53-15b

हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा।
भगीरथश्च राजर्षिः सर्वे च जनमेजय।।

4-53-16a
4-53-16b

पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः।
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ।।

4-53-17a
4-53-17b

एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः ।
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ।।

4-53-18a
4-53-18b

गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः ।
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ।।

4-53-19a
4-53-19b

वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः ।
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ।।

4-53-20a
4-53-20b

इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः ।
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ।।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ।।

4-53-21a
4-53-21b
4-52-22b

विराटपर्व-052 पुटाग्रे अल्लिखितम्। विराटपर्व-054