परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्ग इत्येवंप्रकारं विविधं
नानाविचेष्टितम्।'नपुंसकमनपुंसक-'इत्यादिना नपुंसकैकशेषत्वम्। तासु भूषामियायेति
भावप्राधान्येन योज्यम् । तथा हि । अनङ्गो मदनो वधूर्मण्डयितुं प्रभवति।
सर्वावस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥
इदानीमेतासां त्रिभिर्मुनिविलोभने प्रयासवैफल्यमाह-
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । |
अलसेति॥ वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसबधूनां गतिर्येन तत्प्रयातं गमनम् । भावे क्तः। तथोरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादति- गौरवादुदितपरिश्रमेणोद्गतश्रमेण जिह्मिते धूर्णिते ईक्षणे यस्मिम्स्तत्स्थितं वा स्थितिश्च । सर्वत्र वाशब्दः समुच्चये ॥
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः। |
भृशेति ॥ तथा भृशेन गाढेन कुसुमशरस्य कामस्येषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोरनवसितार्थैरस्फुटोच्चारणादनवधारिताभिधेयैः पदैः सुप्तिङन्तशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्चाधिकं वितते विस्तृते लोचने यस्मिम्स्तदयुगपत्पर्याये- णोन्नमिते भ्रुवौ यस्मिम्स्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्र्स्वः । वीक्षितं वीक्षणं च ॥
रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे । |
रुचिकरमिति ॥ पूर्वोक्तं रुचिकरं स्पृहाजनकमपि । 'रुचिः कान्त्यर्चिषोर्भासि स्त्रियां शोभास्पृहार्थयोः' इति वैजयन्ती । स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ शुद्धे। निर्विकारचेतसीत्यर्थः । पृथातनुजेऽर्जुने विषयेऽर्थवत्सप्रयोजनं न बभूव । तथा हि । महतां धीराणां मनांस्यमर्षे क्रोधे ज्वलयति सति सुखाभिलाषोऽवसरमवकाशं न लभते । रौद्रस्य शृङ्गारविरोधित्वादिति भावः । अत्र विशेषकेऽर्थान्तरन्यासोऽलंकारः॥
स्वयं संरा[३]ध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते। |