पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
दशमः सर्गः ।


श्वरा काचित्तव प्रेयस्यन्यकामिनीभ्यः रूयन्तरेभ्योऽवकाशं न दिशति न प्रयच्छति । रूयन्तरासक्त्या नास्मान्गणयसि । न तु वैराग्यात् । तदर्थमेवायं ते सकल: प्रयासोऽपीत्यर्थः॥

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जया[१]सौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ ५६ ।।

  इतीति ॥ इतीत्थमसूयया मत्सरेण स्फुरन्नधरोष्ठो यस्मिन्कर्मणि तद्यथा तथाभिधा- योक्त्वा विषमितचक्षुषा कुटिलीकृतदृष्ट्यागणिता गुरव आचार्यादयो मानोऽभिमानो लज्जा च यया तया कयाचिदसौ मुनिरुरसि स्वयं स्वहस्तेनैव श्रवणोत्पलेन जघ्ने हतः।

सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः।
श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥५७॥

  सविनयमिति ॥ अपरा सविनयमनौद्धत्येन साचि तिर्यगभिसृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगैकस्य लसतः कपोलस्य लक्ष्म्यो यस्याः सेति । बहुवचनपदोत्तरो बहुव्रीहिः । अन्यथा कप्प्रत्ययः स्यादित्युक्तं प्राक् । श्रवणनियमितेन कर्णान्तप्रापितेन श्रोत्ररुद्धप्रसरेण । तावदायतेनेत्यर्थः । असकलेनासंपूर्णेन । कटाक्षेणेति यावत् । लोचनेन तं मुनिं धनंजयं सकलमिव समग्रप्रायं यथा तथा निदध्यौ पश्यति स्म । कटाक्षेणैव गाढमद्राक्षीदित्यर्थः । एषु श्लोकेषु भावाभासनिबन्धनादूर्जस्वलालंकारः। औत्सुक्यमत्र भावः। आभासत्वं चास्य विरक्तमुनावनौचित्यादित्युक्तं प्रागेवेति ॥

  अथासां मुनिविलोभनमुपसंहरति--

करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारणेऽनु[२]नेतुं प्रियमियती ह्यबलाजनस्य भूमिः॥५८॥

  करुणमिति ॥ ताभिः स्त्रीभिस्तदभिमुखं मुनिसमक्षं करुणं दीनमभिहितमुक्तम् ।त्रपा निरस्ता लज्जा त्यक्ता । किंबहुनाश्रु च विमुक्तम् । ततः परं न किंचिद्विधेयमासीदिति भावः । कुतः। हि यस्मादबलाजनस्याभिसारणे समागमविषये प्रकुपितमननुकूलं प्रियमनुनेतुमनुकूलयितुमियती भूमिरित्येतावती सीमा ।साधनानां परमावधिरिति भावः। अर्थान्तरन्यासोऽलंकारः॥

  अथासामनुरागदार्ढ्यं निगमयति-

असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः॥५९॥

  असकलेति ॥ असकलनयनेक्षितानि नयनार्धविलोकितानि लज्जालसंगतं मन्दगमनं


  1. 'सः' इति पाठः
  2. 'अभिनेतुम्' इति पाठः