भावी करः कररुहाङ्करकोरकोऽपि |
भावीति ॥ हे भैमि, तस्य वृन्दावनस्य वल्लिपल्लवचये लताकिसलयवृन्दमध्ये कररुहा एव नस्वा एवाङ्कुरास्ते एव कोरका यस्य एवंभूतस्तव करः सौख्येनानायासेन लक्ष्यो ज्ञेयः भावी भविष्यति । रक्तत्वादतिमृदुत्वात्कोरकाकारनखरूपकोरकयुक्तत्वाच्च किमयं कोरकयुक्तः पल्लवः, अथवा नखयुक्तो भैमीकर इति संदेहविषयत्वयोग्योऽपीत्यपिशब्दार्थः। यतः-अन्तः मध्ये त्वदास्येन हृतसारस्त्वदीयमुखनिर्माणार्थे हृतः मध्यदेशसंबन्धिश्रेष्ठभागो यस्य एवंभूतो वा तुपारभानुश्चन्द्रस्तस्य शोभानुकारित्वात्तदाकारं करिदन्तजकङ्कणं तदेवाङ्कश्चिह्नं यस्य । हस्तिदन्तवलययुक्तो भैमीकरः, तद्राहितश्च पल्लव इति पल्लवमध्ये करः सुखेन ज्ञास्यत इत्यर्थः । तत्रत्याः स्त्रियः प्रायशो दन्तवलयानि विभ्रति ॥
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्त- |
तज्ज इति ॥ हे भैमि, तज्जः वृन्दावने जातः प्रभञ्जनजनो वायुसङ्घः, वायुलक्षणो वा जनः कुरङ्गमदेन कस्तूरिकया पङ्किलं कलुषमपि श्रमाम्बु सुरतश्रमजनितं धर्मोदकं अशङ्कं निःशकं पाता पास्यति । अपनेष्यतीत्यर्थः । किंभूतः-सुरतान्तमुदा सुरतावसानहर्षेण नितान्तमुत्कण्टके रोमाञ्चिते तव स्तनतटे संचरिष्णुः संचरणशीलः । तथा-खञ्जन्वृक्षादिबाहुल्येन मन्दीभवन् । पथिको नित्यं मार्गस्थः । अत एव पिपासुस्तृषार्तः। अन्योऽपि पान्थः कण्टकिते देशे संचरिष्णुः । अत एव भग्नकण्टकत्वात्पङ्गुर्भवन्नुदकपानेच्छुर्निर्मलोदकप्राप्त्यभावात्कर्दमयुक्तमपि जलं निर्विचारं पिबति ॥
पूजााव मखभुजामुपयागिनो ये |