पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९७
एकादशः सर्गः

 पूजेति ॥ ये विदुषां पण्डितानां कराः मखभुजां देवानां पूजाविधावुपयोगिनः तत्पराः । तथा-कमलेन दानसंबन्धिना जलेन निर्मलकान्तयः । अथ च पद्मतुल्याः । ते विद्वत्करा अनेन राज्ञानुदिनं प्रतिदिनं वितीर्णैर्दत्तैर्हतकैः सुवर्णैः कृत्वा लक्ष्मी दधते धारयन्ति । किंभूताः-सुवर्णधारणादेव स्फुटः प्रकटः बीजकोशस्तद्वद्गौरगर्भा गौरमध्याः । पद्मा अपि देवपूजाविधावुपयोगिनः, स्फुटेन बीजकोशेन गौरमध्याः । अतितरां दातारमिति भावः । 'बीजकोशो वराटकः' इत्यमरः । कमलमध्यस्थिता पीतवर्णा कर्णिकेत्यर्थः॥


वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः
 किंचिन्न तृप्यति धरावलयैकवीरः ।
स त्वामवाप्य निपतन्मदनेषुवृन्द-
 स्यन्दीनि तृप्यतु मधूनि पिबन्निवायम् ॥ १११ ॥

 वैरीति ॥ यः राजा वैरिश्रियं वैरिराज्यलक्ष्मी प्रति लक्षीकृत्य वैरिभिः सह नियुद्धं नितरां युद्धमनाप्नुवन्न प्रप्नुमुवन् किंचित्किमपि न तृप्यति न तुष्यति । यतः-धरावलये एको वीरः शूरः । युद्धमकृत्वैव वैरिभिर्दत्ताः श्रियो लब्ध्वापि युद्धेच्छामप्राप्यातृप्तः । सोऽयं अद्य त्वामवाप्य त्वद्विषये एनमुद्दिश्य नितरां पतन्तो मदनेषवः पुष्पाणि नेषां वृन्दानि तेभ्यः स्यन्दीनि मधूनि पुष्परसान्पिबन्निव तृप्यतु । स्वतुल्यमदनयुद्धलाभादित्यर्थः । एनं वृणीष्वेति भावः। 'अवाप्नुवन्' इति पाठे (प्रति)नियुद्धं युद्धं युद्धं प्रति युद्धमात्रे वैरिश्रियः प्राप्नुवन्न तृप्यति स त्वां प्राप्य तृप्यतु । श्रीभ्योऽपि त्वमधिकेत्यर्थः । अन्योऽपि मद्यपानेन पूर्वमसंतोषहेतुं विस्मरन्संतुष्य[१] ति ॥

तस्मादियं क्षितिपतिक्रमगम्यमान-
 मध्वानमैक्षत नृपादवतारिताक्षी ।
तद्भावबोधबुधतां निजचेष्टयैव
 व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥ ११२ ॥

 तस्मादिति ॥ तस्मान्नृपादवतारिताक्षी इयं भैमी क्षितिपतिभी राजभिः क्रमेण परिपाट्या गम्यमानं राजसंबन्धिनं क्रमेण गम्यमानं वा अध्वानमैक्षत । शिबिकानयने नियुक्ता जन्याः निजचेष्टयैवान्यप्रापणरूपेण स्वव्यापारेणैव नृपरत्नेषु प्रतिबिम्बवशेन तस्या भैम्याः भावोऽभिप्रायस्तस्य बोधो ज्ञानं तेन बुधतां पण्डिततां व्याचक्षते स ज्ञापितवन्तः । तामन्यं नृपं प्रापयामासुरित्यर्थः । अन्योऽपि भाववोधेन निजं पाण्डित्यं प्रकटयति ॥


  1. 'अत्र मदनेषुमधुपानोत्प्रेक्षया तेषामेवेषूणां त्वत्समागमाद्रागानन्दकारित्वप्रतीतेरलंकारेण वस्तुध्वनिः' इति जीवातुः।