चतुर्थः सर्गः। १८१
श्चिमदिङ्मुखस्य दक्षिणदिग्भवो वाम एवेत्यर्थः । ननु मलयानिलस्य प्रसिद्धं दक्षिणत्वं
कथमपलप्यत इत्याशङ्कयाह—यदि असौ मलयानिलो दक्षिण एवेत्यभिमानः, तु तर्हि
सुमनसो धनुः पुष्पमयं चापमटनौ अग्रे नमयन्नम्रीकुर्वस्तव बाहुरेव । तुरेवार्थो वा ।
यथा तव वाहुविरहिणोऽनुकूलस्तथा मलयवायुरपि । विरुद्धलक्षणया उभौ दुःसहा-
वित्यर्थः । मलयानिलोऽप्यने पुष्पाणि नमयति । सुमनसस्तवेति वा । शमयते सर्वान्मा.
रयति, तद्दिग्गतो वायुरपि तथैव । अथ च दक्षिणः प्रहरणकुशलो धर्मयोद्धा न, पराङ्मु-
खस्यापि हननात् । अतो दक्षिणत्वे प्रसिद्धो विरहिणां शत्रुरेवेत्यर्थः१ ॥
किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम्।
यदजयत्तत एव न गीयते स भगवान्मदनान्धकमृत्युजित् ॥९७॥
किमिति ॥ उमापतिर्मदमुदा गर्वहर्षेणान्धमयोगिजनानां वियोगिजनानामन्तकं यम-
तुल्यमेककं भवन्तं यदजयत्, तत एव हेतोः किमु स भगवान्हरः मदनान्धकमृत्यु-
जित् न गीयते । अपितु तत एव कीर्त्यते । एकस्यैव तव जयान्मदनजित्, अन्धकजित्,
मृत्युजिदिति नामत्रयं प्राप्तवान् । मदनत्वम् , अन्धकत्वम् , मृत्युत्वं धर्मत्रयं त्वयि
विद्यते । अन्धकासुर-मृत्यु-मदन-नामभिरपकारकस्त्वमित्यर्थः२ ॥
त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ शुश्रुवे ।
स्वमदहो दहनाज्ज्वलतामना ज्वलयितुं परिरभ्य जगन्ति यः ९८
त्वमिवेति ॥ हे मन्मथ, परापकृतौ परापकारे विषये त्वमिव त्वत्सदृशः कोऽपि कृती
कुशलः न ददृशे दृष्टः, न च शुश्रुवे श्रुतः। चोऽप्यर्थः । कथमित्यत आह-यस्त्वं ज्व-
लता आत्मना स्वरूपेण जगन्ति त्रिभुवनानि परिरभ्यालिङ्गय ज्वलयितुं दहनाद् हर-
नयनाग्नेर्हेतोः स्वमात्मानमदहोऽधाक्षीः । ज्वलतस्तव संबन्धात्त्रिभुवनं ज्वलतीत्यर्थः ।
परापकारार्थमात्मापि येन दग्धः, एवंविधस्त्वं कुशल इत्युपहासः३॥
त्वमुचितं नयनार्चिषि शंभुना भुवनशान्तिकहोमहविः कृतः ।
तव वयस्यमपास्य मधुं मधुं हतवता हरिणा बत किं कृतम्॥९९॥
त्वमिति ॥ त्वं शंभुना नयनार्चिषि उचितं योग्यं भुवनशान्तिकहोमार्थं लोकपीडा-
शान्तिप्रयोजनकहोमार्थं हविर्हव्यं कृतः। महामार्यादिपीडाशान्त्यर्थं वह्नौ होमार्थं हवि-
र्भवति, त्वजनितपीडाशान्त्यर्थं तु नयनवह्नावुचितं हविस्त्वमेव प्रक्षिप्त इत्यर्थः। त्वं नय-
नवह्नौ हविः कृतः, एतदुचितं कृतमिति वा । शं भवत्यस्मादिति शंभुपदेन सूचितम् ।
हरिणा विष्णुना तव वयस्यं मित्रं मधुं वसन्तमपास्य परित्यज्य मधुं मधुनामानं दैत्यं
हतवता किं कृतं । न किमपीत्यर्थः । अतिपीडाकारिणं वसन्तमुपेक्ष्य दैत्यं हतवता१ 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'प्रत्यङ्मुखस्य वामोऽपि दक्षिणः' इति ध्वनिः ।
शमनदिक्पवनोऽपि न दक्षिण इति स्फुरणाद्विरोधाभासोऽलंकारः' इति जीवातुः। २ 'अत्र सापह्नवोत्प्रेक्षालं-
कारः' इति साहित्यविद्याधरी । 'अत्र मदनादीनां मिथो भेदेऽप्यभेदोक्तेरतिशयोक्तिः' इति जीवातुः।
३ 'अत्रोपमातिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी।