पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
नैषधीयचरिते


हरिणा किमपि नोपकृतमिति भावः । बत कष्टम् । किं कृतं, कुत्सितं कृतमिति वा । शान्तिः प्रयोजनमस्य शान्तिकः 'प्रयोजनम्' इति १ठक् ॥ इति कियद्वचसैव भृशं प्रियाधरपिपासुतदाननमाशु तत् । अजनि पांशुलमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥ १०० ॥ इतीति ॥ प्रियस्य नलस्याधरपिपासु अधरचुम्बनाभिलाषि तत्प्रसिद्धं विरहपाण्डुरं वा तस्या आननं इति पूर्वोक्तेन कियद्वचसैवाल्पवचनेनैव आशु शीघ्रं पांशुलमतितरां शुष्कमजनि जातम् । साकल्येन वक्तुं समर्थ नाभूदित्यर्थः । यच्च पिपासु तदल्पवचने- नैव शुष्ककण्ठं भवति । उत्प्रेक्षते-अप्रियवाचा सनिन्दवचनेन ज्वलन्क्रुद्धो यो मदन- स्तस्य शोषणबाणेन शोषणाख्येन शरेण या हतिहननं तस्मादिव । शोषणबाणाहतं स- च्छुष्कं जातमित्यर्थः । अधरपिपासु-मधुपिपासुप्रभृतीनां गम्यादिपाठात्समासः इति वामनाचार्यवचनात्समासः। पांशुलशब्दः सिध्मादि (लजन्तः२)॥ वक्रोक्तिभङ्गयोग्रता व्यञ्जयितुमुपक्रमते- मियसखीनिवहेन सहाथ सा व्यरचयशिरमर्धसमस्यया । हृदयमर्मणि मन्मथसायकैः क्षततमा बहु भाषितुमक्षमा ॥१०१॥ प्रियेति ॥ अथानन्तरं सा भैमी प्रियसखीनिवहेन स्वरहस्यवेदिस्निग्धसखीनिवहेन सह अर्धया सखीभाषितस्य समस्यया प्रत्युत्तररूपेणोत्तरार्धपरिपूरणेन गिरं व्यरचयत् । अर्धं सख्यः पूर्वमूचुः, अनन्तरं भैम्युवाचेत्यर्थः । एवं किमित्युवाचेत्यत आह-किंभूता -हृदयमर्मणि हृदयलक्षणमर्मस्थाने मन्मथसायकैः क्षततमातितरां विद्धा । अत एव बहु भाषितुमक्षमासमर्था । 'समस्या तु समासार्थी' इत्यमरः । अपूर्णत्वाद्विक्षिप्त समस्यते संक्षिप्यतेऽनयेति समस्या । बाहुलकात् 'संज्ञायां समज-' इति इति क्यप्३ ॥ अकरुणादव सूनशरादसून्सहजया यदि धीरतयात्मनः । असव एव ममाद्य विरोधिनः कथमरीन्सखि रक्षितुमात्थ माम् ॥ अकरुणादिति ॥ हे भैमि, त्वम् अकरुणान्निर्दयात्सूनशरात्कामात्सकाशादापदि सहजया स्वाभाविकया धीरतया धैर्येण आत्मनोऽसूनव रक्ष । 'विपदि धैर्यम्' इति वचनात् । इति सखीवचनम् । हे सखि, ममाद्य असव एव प्राणा एव विरोधिनो वैरिणः, त्वमरीन्रक्षितुं कथमात्थ ब्रूषे । वैरिणो रक्षणीया इत्युदासीनोऽपि नोप- दिशति, किंपुनर्मित्रम् । इति भैमीवचः । प्राणेषु गतेषु मम सुखं स्यादित्यर्थः । सूनश- रात् 'भीत्रा-' इत्यपादानत्वम् ॥ १ 'अत्र रूपातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षालंकारः, लेशोक्तिश्च' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासो हेतुः सहोक्त्यलंकारः' इति साहित्यविद्याधरी । ४ 'इतः सकाशादष्टसु वाक्येषु श्लेषवक्रोक्तिरलंकारः । यदुक्तं रुद्रटे-'वका यदन्यथोक्तं व्याचष्टे वान्यथा तदुत्तरदः ।

वचनं यत्पदभङ्गैर्ज्ञेया सा श्लेषवक्रोक्तिः' इति साहित्यविद्याधरी