यदतनुस्त्वमिदं जगते हितं क्व स मुनिस्तव यः सहते हतीः ।
विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमीशिषे ॥ ९३ ॥
यदिति ॥ हे स्मर, यत्त्वमतनु: शरीररहितोऽसि इदं जगते लोकाय हितम् । सशरी-
रत्वे तु त्वं विशिखं बाणमाश्रवणं परिपूर्याकृष्य अविचलद्भुजं दृढभुजं यथा स्यादेवं
बाणमुज्झितुं त्यक्तुं चेदीशिषे समर्थः स्याः, तर्हि यस्तव हतीर्घातान्सहते स मुनि-
रपि क्व । त्वद्बाणपीडासहो मुनिरपि न विद्यते, अन्यो नास्तीति किं वाच्यम्। तस्मात्त-
वाशरीरत्वे लोकभाग्यं कारणम् । हितयोगे चतुर्थीसमासविधानसामर्थ्याज्जगते इति
तद्योगे चतुर्थी । 'ईशः से' इति इटि ईशिष इति रूपम्१ ॥
सह तया स्मर भस्म झटित्यभूः पशुपतिं प्रति यामिषुमग्रहीः ।
ध्रुवमभूदधुना वितनोः शरस्तव पिकस्वर एव स पञ्चमः ॥ ९४॥
सहेति ॥ हे स्मर, त्वं पशुपतिं प्रति लक्ष्यीकृत्य तद्वधाय यामिषुमनहीः तया इष्वा
सह त्वं झटिति भस्म अभूः । जीवपालकेन हरेणास्मदादिहिताय सबाणस्त्वं दग्ध
इति भावः। वितनोः शरीररहितस्य तवाधुना पिकस्वर एव कोकिलस्वर एव पञ्चानां
पूरणः शरोऽभूत् । ध्रुवमुत्प्रेक्षे । अशरीत्वेऽपि पञ्चबाणत्वं चावस्थितमेवेत्यर्थः । 'प-
ञ्चमं प्राह कोकिलः' (इत्युक्तेः पञ्चमनामकः पिकस्वर एव शरोऽभूत्) इति शब्दच्छ-
लम्-हरेण दग्धे शरे तत्स्थाने पञ्चमस्वर एव जातः । 'पत्री रोप इषुर्द्वयोः' इत्यमरः२ ॥
स्मर स मद्दुरितैरफलीकृतो भगवतोऽपि भवद्दहनश्रमः।
सुरहिताय हुतात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणमापिथ ॥९५॥
स्मरेति ॥ रे स्मर, स भगवतो हरस्यापि भवद्दहने भवद्दाहे श्रमः मद्दुरितैर्ममैव पात-
कैरफलीकृतो निष्फलीकृतः । विफलत्वमेवाह-ननु यस्मात्सुराणां हिताय हुता
त्यक्ता आत्मतनुः स्वशरीरं येन एवंविधस्त्वं तत्प्रसादात्तत्क्षणं तत्कालमेव दिवि पुन-
र्जनुर्जन्म आपिथ प्राप्तवानसि । नहि पापिनः स्वर्गे जन्म, तव तु परोपकारित्वात्स्वर्गे
जन्म । सुरहिताय, 'चतुर्थी तदर्थार्थ-' इति समासः३॥
विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः ।
सुमनसो यमयन्नटनौ धनुस्तव तु बाहुरसौ यदि दक्षिणः ॥९६ ॥
विरहिण इति ॥ विधूदये चन्द्रोदये विमुखस्य दुःखितस्य विरहिणः स शमनस्य यम-
स्य। दिक्पवनो मलयानिलः दक्षिणः सुखकारी न, किंतु वामो वक्र एव । प्रथम
विरहाद्दुःखम् , ततश्चन्द्रोदयात् , ततो मलयानिलादिति भावः । पूर्णस्य चन्द्रस्य दुःख-
कारित्वाद्विमुखस्य पश्चिमाभिमुखस्य विरहिणोऽपसव्यो न भवति, किंतु वाम एव । प-
१ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षालंकारः' इति साहित्य-
विद्याधरी। ३ 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।