पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। १८७


उपहरन्ति न कस्य सुपर्वणः सुमनसः कति पञ्च सुरद्रुमाः । तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्ग विगर्हणा॥९०॥ उपहरन्तीति ॥ हे काम, पञ्चसंख्याकाः सुरद्रुमा मन्दारादयः कस्य सुपर्वणो देवमा त्रस्य विशिष्टस्य सुतरां कति सुमनसः पुष्पाणि नोपहरन्ति उपायनीकुर्वन्ति । असंख्याताः सुमनसः प्रयच्छन्ति । 'देवस्यापि तव तु पुनः हीनतयातिनिकृष्टत्वेनावशया पृथक् प्रत्येकं एकिकामेकमेकं पुष्पं प्रयच्छन्ति । अत एव पञ्चबाणस्त्वम् । अङ्ग सोपहासाम- न्त्रणे । इयतापि धिक्कारेण ते विगर्हणा न लक्षणया लज्जान। अत एव धिक् त्वामित्यर्थः। निर्लज्जो निघृणस्त्वमित्यर्थः । 'अङ्गविदारणम्' इति पाठे हृदयस्फोटो न भवतीत्यर्थः । १सुमनःशब्दस्य नित्यस्त्रीलिङ्गबहुवचनान्तत्वेऽपि व्यक्तेरेकत्वादेकिकामित्येकवचनम्२ ॥ कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विधिरग्रहीत् । किमकृतैष तवैकतदास्पदे द्वयमभूदधुना हि नलभ्रुवौ ॥ ९१ ॥ कुसुममिति ॥ विधिः कुसुमरूपं धनुः ते तुभ्यं वितीर्य दत्त्वा पुनरग्रहीद्गृहीतवा- न्किमु । यतोतिदुर्णयकारि त्रिजगदपकारित्वादतिदुर्विनीति । किम्विति प्रश्ने संभावना याम् । स्वयमेव पुनराह-हृतेऽपि धनुषि एष विधिस्तव किमकृत, अपितु किमप्यप- कारं कर्तुं समर्थो नाभूदित्यर्थः । हि यस्मादधुना धनुष्यपहृतेऽपि एकतदास्पदे एकं च तत्तच्च एकतत् तस्य धनुषः स्थाने नलस्य भ्रुवौ द्वयमभूत् । तव तु धनुर्द्वयलाभात्तेन तवोपकार एव कृतो.न त्वपकारः । विधिना परोपकारार्थं धनुर्हतम् , परं लोकाभा- ग्येन विपरीतं जातमिति भावः । दुर्णय इति, 'उपसर्गादसमासेपि णोपदेशस्य' इति णत्वम्३ । 'दुर्नय' इति च पाठः । तदोपसर्गप्रतिरूपकाव्ययत्वाण्णत्वाभावः४॥ षडृतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः । ददति षड्भवते कुरुते भवान्धनुरिवैकमिषूनिव पञ्च तैः ॥ ९२ ॥ षडिति ॥ अत्रेमं क्रममुल्लङ्घथैव नन्दितं वर्धितं नन्दनमिन्द्रोद्यानं यैस्ते षडपि ऋ. तवः स्वकं स्वीयमेककमेकैकं कुसुमं पुष्पं कृपया न तु प्रीत्या यद् भवते तुभ्यं ददति। भवान् तैः षड्भिः कुसुमैः कृत्वा एकं पुष्पं धनुरिव पञ्च पुष्पाणि इषूनिव कुरुते । भि- क्षुणा त्वया ऋतवः षड्पुष्पाणि याचिताः, तैस्त्वया विभज्य धनुर्बाणाश्च कृताः। अतिदरिद्रो भिक्षया प्राप्तं स्वल्पमपि वस्तु विभज्य, अनेनैतत्कर्तव्यमनेनैतत्कर्तव्यमिति मनोरथः क्रियत इति लौकिक्युक्तिसूचनार्थमुभपयत्रापीवशब्दप्रयोगः५॥१ 'सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः' इति मेदिन्यादिकोषात् 'वेश्या श्मशानसुमना इव वर्जनीया' इति मुकुटदर्शितशूद्रकप्रयोगाच्च बहुवचनान्तत्वनियमाभावेनैवैकवचनं सिद्धम् । २ 'अत्र हेतु- रलंकारः' इति साहित्यविद्याधरी । ३ इदं च 'सुदुरोः प्रतिषेधो नुमविधितत्वषत्वणत्वेषु' इति वार्तिक- स्य गत्व-दुर्नयम्, दुर्नीतमिति । 'उपसर्गात्-'इति णत्वं मा भूदिति' इति भाष्यस्य च विस्मरणमूलकम् । तस्माण्णत्वरहित एव प्रयोगः साधुः ।। ४ 'अत्रोत्प्रेक्षातिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी। ५ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी