पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते


तस्य श्रुतिःश्रवणं तेन पूर्णौ कर्णौ यस्य । योगशास्त्राणि श्रुतयश्चेति वा। योगिनो हि यत्र कुत्रापि न जल्पन्ति तथा ब्रह्मण उपदेशादहमपि । त्वमपि वयःसंधि -विश्वासार्हे मयि विश्वस्य कामगोष्टीं कुर्विति भावः । रुधेः स्वरितेत्त्वात्तङ्[१]॥ अतिशयितमभिलाषमुत्पादयितुं नलप्राप्तेर्दुर्लभत्वमाह- नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते बतान्या । कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥ ४५ ॥ नलेति ॥ हे भैमि, तव त्वया अनवाप्यं दुष्प्रापमस्मत्कर्तृकपक्षवीजनादिसेवादिरूपं त्रिदिवोपभोगं स्वर्गोपभोगं नलाश्रयेण कृत्वान्या नायिकानोपि लभते । बत खेदे हा कष्टं । प्राप्स्यते । वर्तमानसामीप्ये लट् । प्राप्नोति वा, बहुवल्लभत्वादिति वा । केव-अम्बु-. जिन्या कमलिन्या दुर्लभं दुष्प्रापं ज्योत्स्नोत्सवं चन्द्रिकाजन्यविकासादिरूपं महोत्सव- मिन्दुपरिग्रहेण चन्द्राङ्गीकारेण कुमुद्वतीव यथा प्राप्नोति । अन्यस्या अनर्हत्वादेव मे खेदः। स्वर्भोगसिद्ध्यै नलपरिग्रहस्त्वया संपाद्य इत्यर्थः । नहि तं विना वयमन्यं भजाम इत्यर्थः । तव कृद्योगे 'कृत्यानाम्-' इति कर्तरि षष्ठी । अम्बुजिन्या खलर्थयोगे षष्ठीनिषे- धात्कर्तरि तृतीयो[२]॥ प्रकृतमुपसंहरन्नाह- तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म। रसालवन्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ ४६ ॥ तदिति ॥ तत्तस्मात्त्वया नैषधेन नलेनानूढतयापरिणीतत्वेनास्माभिः कृतं यच्चाटु प्रियवचनं तस्माजन्म यस्य शर्म सुखं दुरापं दुष्पापम् । नलाश्रयेणैव त्वयाप्यस्मत्प्रि- यवचनजनितं सुखं प्राप्तव्यं नान्यथेति भावः । कया किमिव-अप्राप्तवसन्तया रसा- लवन्या सहकारवाटिकया मधुपैर्भमरैरनुविद्धं कृतं सौभाग्यं मकरन्दास्वादझांकारगु- ञ्जनादिलक्षणमिव यथा दुष्प्रापम् । पूर्वश्लोकेऽम्बुजिनीदृष्टान्तेन सर्वथा दुष्प्रापत्वं सूचितम्, इदानीमाम्रवनीदृष्टान्तेन कालान्तरे प्राप्स्यत इति सूच्यते । खलर्थयोगे 'न लोका-' इति षष्ठीनिषेधः[३]॥ तत्र नलप्राप्तिसंभावनायामधैर्यं न कर्तव्यमित्याह- तस्यैव वा यास्यसि किं न हस्तं दृष्टं मनः केन विधेः प्रविश्य । अजातपाणिग्रहणासि तावद्रूपखरूपातिशयाश्रयश्च ॥ ४७ ॥ तस्यैवेति ॥ त्वं तस्यैव नलस्यैव वा हस्तं किं न प्राप्स्यसि अपित्वेवमपि संभाव्यते । सर्वथा नलं न प्राप्नोषीति निश्चेतुं न शक्यते इति पूर्वत्रापरितोषद्योतको वाशब्दः । निश्चयाभावः कथमत आह–केन पुरुषेण विधेर्ब्रह्मणो मनोऽन्तःकरणं प्रविश्य दृष्टं



 १ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी। 'अत्र वार्तानिरोधस्य विरिश्चीत्यादिपदार्थहे- तुकत्वात्काव्यलिङ्गभेदः' इति जीवातुः। २ 'अत्रोपमा'. इति साहित्यविद्याधरी। ३ 'अत्रोपमा' इति साहित्यविद्याधरी।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः