प्रथमः सर्गः। एव, भवात् संसारकूपात् । उन्मज्जताम् । सतां ब्रह्मविदाम् । 'अस्ति ब्रह्मति चेद्वेद सन्तमेनं ततो विदुः।' इति हि श्रुतिः । मज्जत. । पापजातस्य पापसमूहस्य । हस्तावलम्बनम् । नास्ति । अत एव सहोन्मजनं नास्ती- त्यर्थः । ‘जात जन्मसमूहयोः' इति विश्वः । 'झानामिस्सर्वकर्माणि भस्मसात्कुरुते तथा ।' इत्युक्तरीत्या ज्ञानेन पापविनाशाभिप्रायेण, 'तत्सुकृतदुष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयुञ्जन्त्य- प्रिया दुष्कृतम् ।' इत्युक्तरीत्यान्यत्र निवेशनाभिप्रायेण च पापजातस्य मजनमुक्तम् । एतेन भगवन्त प्राप्ताना ससारबीजकर्माभावात् ब्रह्मादीन् प्राप्तानामिव पुनरावृत्तिर्नास्तीति सूच्यते ॥ ६ ॥
अनन्यरक्षावतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ ६१ ॥
अनन्यति । अनन्या एकान्तिनः तेषां रक्षैव व्रत तदस्यास्तीत्यनन्यर- क्षाव्रती। सर्वधनी सर्वकेशीइत्यादिवत्कर्मधारयादपि मत्वर्थीयप्रत्ययो युक्तः। त भवन्तम् । चातकवतचारिणः चातका जलधरैकान्तिनः शकुन्ता: तेषां व्रतमेकान्तित्व चरितु शीलमेषामिति तथोक्ताःत्वदेकनियताः। निरालम्बन- भावन निरालम्बना भक्तियोगाद्युपायान्तरालम्बनरहिता भावना मनोव्या- पारो याम्मन् कर्मणि तद्यथा तथा, उपायान्तरनिराशमिति यावत् । अवल- म्बन्ते प्रपद्यन्ते। उपायान्तरनैराश्यरूपस्याकिञ्चन्यस्य प्रपदनाधिकारिवि- शेषणत्वानिरालम्बनभावनमित्युक्तम् ॥ ६१ ॥
अनिदंपूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ ६२ ॥
अनिदमिति। अनिदंपूर्वा अनादिकालप्रवृत्ता निद्रा संमृतिर्येषां तेषाम्। ।