पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
यादवाभ्युदये

त्रिवर्गमपवर्ग वा प्रतिलन्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ ५८ ॥

त्रिवर्गमिति। त्रयाणां धर्मार्थकामानां वर्ग: तम् । 'त्रिवों धर्म-

कामाथैः । इत्यमरः । अपवर्ग मोक्ष वा । प्रतिलब्धुं प्राप्तुम् । प्रयस्यतां प्रयतमानानाम् । त्वदनुग्रहः तव प्रसाद । प्रलयेष्वपि । दीर्घायुः । प्रतिभू लग्नकः। यथा वृद्धयाजीवाः प्रतिभुव विश्वस्य वृद्धयर्थ धन प्रयुञ्जते, तथा सन्तः त्वत्प्रसादमेव कल्पान्तरेष्वपि फलप्रद विश्वस्य त्रिवर्गापवर्गानि कर्माणि अनुतिष्ठन्ति । अग्न्यादितत्तरामदेवतानां कल्पान्तरेष्वगभवादिति भावः । भगवत्प्रसादे प्रतिभूत्वारोपस्य प्रयासरूपप्रस्तुतकार्योपयोगित्वात् परिणामालङ्कारः ।। ५८ ।।

यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् वं तव च वाचकम् ॥ ५९॥

यदेकमिति। सर्वान्नायसन्वित सर्वेषु वेदेष्वाद्यन्तयोः समन्वितम् । ब्रह्मणः प्रणव कुर्यादादावन्ते च सर्वदा।' इति स्मृतः । सर्वजन्तूनाम् । तारक भवार्णवतरणोपायभूतम् । यत् एकं अक्षर ब्रह्म एकाक्षररूपं शब्द- ब्रह्म 'ओमित्येकाक्षर ब्रह्म' इति प्रसिद्धम् । तत् । त्वम् । तव । वाचक अभिधान च। 'अमिति ब्रह्म'। 'ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।' इत्यादिषु प्रणवरूपतया प्रणववाच्यतया च वर्णितं परं ब्रह्म त्वमेवेत्यर्थः ॥ ५९॥

त्वदालम्बितहस्तानां भवादुन्मजतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥६०॥

त्वदिति। त्वया आलम्बितहस्तानां उद्धरणाय गृहीतहस्तानाम्। अत .