सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
चतुर्दशः सर्गः ।

नात् । न लज्जते । तस्योत्सुकत्वादिति भावः । किंतु वक्तुः स्तोतुरेवाधिका त्रपा भवति । भयादिना मिथ्यास्तावकत्वादिति भावः । प्रकृते तु नैवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । व्रीडं नैति । अनन्तगुणाधारे त्वयि बहोरपि प्रियस्या मिथ्यात्वादिति भावः । किंतु स्तवनेनात्रभवता पूज्येनैव हीमता त्रपावता भूयते प्रत्युत त्वमेवात्र जिहेषीत्यर्थः । महतामनुत्सुकत्वादिति भावः । 'पूज्यस्तत्रभवान्' इति सज्जनः । 'इतराभ्योऽपि-' (५।३।१४) इति सार्वविभक्तिके तसिल्प्रत्यये 'सुप्सुपा' इति समासः ॥ २॥

 तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
 अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ॥३॥

 तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूतैः स्तवैः स्तोत्रैः । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । तोषमुत्सुकतामेति । ते च तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असंबद्धप्रलापानामनिरर्गलत्वादिति भावः । त्वयि तु नैवमित्याह-अस्तीति । हे स्तोत्रयोग्य । गुणाकरत्वादिति भावः । अत एव तव संबन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचसा न च तुष्यसि न प्रसीदसि । गम्भीरत्वादिति भावः । अत्र श्लोकद्वये पुरुषान्तरादुपमानभूतादाधिक्यकथनाद्यतिरेकालंकारः ॥ ३ ॥

 बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।
 संभवन्ति यददोषदूषिते सार्व सर्वगुणसंपदस्त्वयि ॥ ४ ॥

 बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते । बह्वपि तव प्रियं ब्रुवन् सन् अनृतवादितां मिथ्यावादित्वं न व्रजति न गच्छति । यद्यस्मात् हे सार्व, सर्वहितत्वात्सार्वः तत्संबोधने । 'सर्वपुरुषाभ्यां णढञौ' (५।१।१०) इति णप्रत्ययः। दोषदूषितो न भवतीत्यदोषदूषिते सर्वागुणवर्जिते त्वयि सर्वगुणसंपदः संभवन्ति । अनारोपितगुणवादो भूयानपि न विपर्येतीति भावः । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ४ ॥

 सा विभूतिरनुभावसंपदां भूयसी तव यदायतायति ।
 एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥५॥

 सेति ॥ हे ऊढगुरुभार । विश्वंभरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतं भारताख्यं वर्षम् । 'वर्षोऽस्त्री भारतादौ च' इति हैमः । 'लोकोऽयं भारतं वर्षम्' इत्यमरः । अद्येदानीमायतायति बहुतरकालम् । स्थितं यथा तथेत्यर्थः । 'उत्तरः काल आयतिः' इत्यमरः । मम वशे आयत्ततायां वर्तत इति यावत् । 'वश आयत्ततायां च' इति विश्वः । सा तद्वशवर्तनम् । विधेयप्राधान्यात्स्त्रीलिङ्गता । तवानुभावसंपदां सामर्थ्यातिशयानां भूयसी महती विभूतिर्महिमा । कार्यमिति यावत् । त्वत्प्रसादलब्धमिदमैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसंपदं विना संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ ५॥