श्रीपतिः पतिरसाववनेश्च परस्परं
संकथामृतमनेकमसिस्वदतामुभौ ॥ ६९ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के श्रीकृष्ण-
समागमो नाम त्रयोदशः सर्गः ॥ १३ ॥
मर्त्येति ॥ उभौ श्रीपतिः कृष्णः असाववनेः पतिर्धर्मसुतश्च परस्परं मर्त्यलोकैर्मनुष्यलोकैर्दुरवापं दुर्लभमवाप्तरसोदयं प्राप्तरसोत्कर्षम् । स्वादूभवदित्यर्थः । अ१तिरक्ततयाऽतिस्निग्धतया अनुपदमनुक्षणं प्रतिवाक्यं च नूतनत्वमपूर्वतां दधत् अनेकं बहुलं संकथां संभाषणं चेदिराजजरासन्धवधादिकार्यचिन्तारूपं तदेवामृतं तदसिस्वदतां स्वादितवन्तौ । 'आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः' (नैषधीयचरिते ५।१२) इति भावः । स्वदतेर्णौ चङयुपधाया ह्रस्वः । संकथामृतमिति रूपकालंकारः स्वादनलिङ्गात् । रमणीयकं वृत्तम् । 'रान्नभद्वितयरैरुदितं रमणीयकम्' इति लक्षणात् ॥ ६९ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायां त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः ।
तं जगाद गिरमुद्गिरनिव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकद्वदो नृपः ॥१॥
तमिति ॥ वदतीति वदः । पचाद्यच् । कुत्सितस्य वदः कद्वदः गर्ह्यवाक् । गर्ह्यवादी तु कद्वदः' इत्यमरः । 'रथवदयोश्च' (६।३।१०२) इति कोः कदादेशः । स न भवतीत्यकद्वदः साधुवादी नृपो युधिष्ठिरो यज्ञकर्मणि यज्ञानुष्ठाने मनः समादधत्सम्यगादधत् । तदेव हृदि निधायेत्यर्थः । आहितविकासया कृतप्रसादया दृशा दृष्ट्या स्नेहमुद्गिरन्नुद्वमन्निवेत्युत्प्रेक्षा । दृष्टिविकासात्प्रकटितस्नेहः सन्नित्यर्थः । वाचो विन्दन्ति वक्तुं विवेकं च जानन्तीति वाग्विदो वाक्यकोविदाः । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । तेषां वरं श्रेष्ठं तं हरिं गिरं जगाद । ब्रूतेरर्थग्रहणात् 'दुह्याच्-' इत्यादिना गदेर्द्विकर्मकत्वम् । अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः संसृष्टिः । अस्मिन्सर्गे रथोद्धता वृत्तम् । 'रानराविह रथोद्धता लगौ' इति लक्षणात् ॥ १॥
'गिरं जगाद' (१४१) इत्युक्तं तामेव गिरं दशभिः प्रपञ्चयति-
लञ्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेति न तव प्रियं वदन्हीमतात्रभवतैव भूयते ॥ २॥
लजत इत्यादिभिः ॥ परोऽन्यः कश्चित्पुमान्प्रियं गदितः । प्रियवाक्यमुक्तः सन्नित्यर्थः । गदेर्दुहादित्वादप्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनाम्' इति वच-
पाठा०-१'अतिरक्त•'.