सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४९
पञ्चमोऽङ्कः

कृतविनयस्य पुत्रकस्य लम्भानन्तरं स्वर्गारोहणेनावसितकार्या विप्रयोगमुखीं महाराजः समर्थयिष्यति ।]

  राजा-सुन्दरि ! मा मैवम् ।

 नहि सुलभवियोगा कर्तुमात्मप्रियाणि
प्रभवति परवत्ता शासने तिष्ठ भर्तुः।
अहमपि तव सूनावद्य विन्यस्य राज्यं
 विचरितमृगयूथान्याश्रयिष्ये वनानि ॥ १७ ॥

 कुमार:-नार्हति तातो नृपपुङ्गवधारितायां धुरि दम्यं नियोजयितुम् ।


कार्या समाप्तकर्तव्याम् विप्रयोगमुखीं विरहबद्धमनस्कां मामपि महाराजः समर्थयिष्यति मंस्यते । सुशिक्षितपुत्रस्य लाभानन्तरं कृतकृत्या भूत्वा सुखदुःखसमाना इयमिदानीं स्वर्गं जिगमिषुरस्तीति मंस्यते महाराजः। अनुरूपपुत्रलाभेन इदानीं मां सम्पन्नकार्यां मत्वा गन्तुमाज्ञां दास्यति महाराज इति भावः । कृतः सम्पादितः विनयः शिक्षा येन सः। “विनयं प्रणतो प्राहुः शिक्षायां विनयो मतः" इति लोचनः ।

  राजा-सुन्दरि मा मा एवम् मंस्थाः । नैतदेवम् ।

  नहीति -सुलभः सुकरः क्षणे क्षणे सम्भाव्यो वियोगो यस्याः सा तादृशी वियोगकारिणी परवत्ता पराधीनता आत्मप्रियाणि स्वेच्छानुकूलमाचरितुं न प्रभवति । पराधीनः पुरुषः स्वकामनानुकूलं कर्तुं न पारयति । पारतन्त्र्यं बन्धाय भवति स्वेच्छाचारनिरोधाय च । अतो गच्छ । तव भर्तुरिन्द्रस्य शासने आज्ञायां तिष्ठ वर्तस्व । त्वं इन्द्रस्य परतन्त्रत्वात् तस्याभ्यनुज्ञया वर्तस्व । ततश्च त्वयि स्वर्गङ्गतायाम् अहमपि तव सूनौ आयुषि अद्यैव अस्मिन्नेव क्षणे राज्यं राजकार्यं विन्यस्य संस्थाप्य विचरितानि मृगयूथानि मृगवृन्दानि येषु मृगाध्युषितानि वनानि आश्रयिष्ये अवगाहिष्ये । वानप्रस्थाश्रमं धारयिष्ये इत्यर्थः।

 "परतन्त्रः पराधीनः परवान्" इत्यमरः । “सूनुः पुत्रेऽनुजे रवौ" ।

 अत्र प्रसादस्यानुग्रहरूपत्वात् पर्युपासनं नाम निर्वहणसन्ध्यङ्गमुक्तं भवति । अत्र गुरुतरविरहजन्यसन्तापेन संसारात् पराङ्मुखस्य राज्ञो निर्वेदः उर्वशीविरहमात्रहेतुक एव न पुनः नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयकृतः इति भावाभासमात्रम् तस्य च विप्रलम्भपोषकत्वात् ऊर्जस्विदलङ्कारः । प्रचमचरणे अर्थान्तरन्यासः । इदं च मालिनी वृत्तम् ॥ १७ ॥

  कुमार:-तातः नृपेषु पुङ्गवः श्रेष्ठः तेन धारितायां चालितायां धुरि दम्यं वत्सतरं नियोजयितुं नार्हति । अत्र राज्ञः पुङ्गवत्वकल्पनात् शक्तिमत्त्वं कार्य-