राजा-(आत्मगतम्) अपि नामैवं स्यात् । (प्रकाशम् । कुमारमाश्लिष्य) वत्स ! भगवन्तमभिवादयस्व ।
कुमार:- भगवन् ! और्वशेय आयुः प्रणमति ।
नारदः-आयुष्मानेधि ।
राजा-अयं विष्टरोऽनुगृह्यताम् ।
(नारदस्तथोपविष्टः सर्वे नारदमनूपविशन्ति)
राजा-(सविनयम्)भगवन्,किमागमनप्रयोजनम् ?
नारदः-राजन्, श्रूयतां महेन्द्रसन्देशः।
राजा-अवहितोऽस्मि ।
नारद:-प्रभावदर्शी मघवा वनगमनाय कृतबुद्धिं भवन्तमनुशास्ति ।
राजा-किमाज्ञापयति ?
राजा-(आत्मगतम् ) भगवतः आशीर्वचनं निशम्य शङ्कते, अपि नाम इति मनस्येव प्रश्ने । किं एवं स्यात् आवयोः कदापि विश्लेषो न भविष्यति । अत्र पूर्वभावो नाम निर्वहणसन्ध्यङ्गम् । (प्रकाशम् ) (कुमारं आयुषमाश्लिष्य) वत्स! भगवन्तं नारदं अभिवादयस्व प्रणम ।
कुमार:-भगवन् ! और्वशेयः उर्वश्याः अपत्यं पुमान् और्वशेयः उर्वशीतनयः आयुः प्रणमति ।
नारदः-आयुष्मान् एधि दीर्घायुर्भव।
राजा-अयं विष्टरः आसनम् अनुगृह्यताम् स्वीक्रियताम् , उपविश्यतामित्यर्थः । (नारदस्तथा आसने उपविष्टः । सर्वे उपस्थिता जना नारदम् अनु पश्चात् उपविशन्ति-समुदाचारोऽयम् ।)
राजा-(सविनयम् ) भगवन् किमागमनप्रयोजनम् ? केन हेतुना मद्गृहमुपकृतमद्य भवतागमनायासेन इति सादरं पृच्छति राजा।
नारदः-राजन् ! श्रूयतां महेन्द्रसन्देशः महेन्द्रेण प्रेषितः सन्देशः श्रूयतामित्यर्थः।
राजा-अवहितः सावधानः अस्मि ।
नारदः-प्रभावदर्शी स्वात्मप्रभावेण सर्वं ज्ञातुमर्हः मघवा इन्द्रः वनगमनाय कृतबुद्धिं कृतनिश्चयं भवन्तं अनुशास्ति आज्ञापयति ।
राजा-किमाज्ञापयति देवेन्द्रः?
२२ विक्र०