नारद:-त्रिकालदर्शिभिरादिष्टः सुरासुरविमर्दो भावी । भवांश्च सांयुगीनः सहायः । तेन न त्वया शस्त्रन्यासः कर्तव्यः । इयश्चोर्वशी यावदायुस्तव सहधर्मचारिणी भवत्विति ।
उर्वशी-(अपवार्य) सल्लं विअ हिअआदो अवणीदं । [शल्यमिव हृदयादपनीतम् ।]
राजा-परमनुगृहीतोऽस्मि परमेश्वरेण ।
नारद:-युक्तम् ।
त्वत्कार्यं वासवः कुर्यात्त्वं च तस्येष्टकार्यकृत् । |
नारदः-त्रिकालदर्शिभिः भूतभविष्यवर्तमानेतिकालत्रये यद्यद् भावि तत्सर्वं स्वप्रभावेण जानद्भिः ज्योतिर्विद्भिः मुनिभिः सुरासुराणां देवदानवानां विमर्दो युद्धं संघर्षो वा भावी भविष्यति काले भविता इति आदिष्टः कथितः । देवदानवानां युद्धं भविष्यतीति प्रोक्तं मुनिभिः । भवांश्च अस्माकं सांयुगीनः संयुगे रणे साधुः तादृशो रणपण्डितः सहायः । तेन हेतुना त्वया शस्त्रन्यासः वानप्रस्थधर्मग्रहणेन शस्त्राणां परित्यागो न विधेयः । इयं च उर्वशी यावदायुः तव जीवनपर्यन्तं सहधर्मचारिणी धर्मपत्नीत्वेन भवतु इति । इयं त्वया सार्धं तव जीवनपर्यन्तं निवसतु इत्यर्थः । अत्र “कृतिर्लब्धार्थशमनमिति लक्षणात् लब्धाया उर्वश्या सुश्लिष्टय उपशमनात् कृतिर्नाम निर्वहणसन्ध्यङ्गं लभ्यते ।
उर्वशी-(अपवार्य) शल्यमिव हृदयादपनीतम् । किं नाम महेन्द्रः सन्दिशति ? किं मामाह्वयते इति यन्मम चेतसि शल्यम् शङ्कुरिवासीत्तत् इयं यावज्जीवं त्वया सार्धं वसतु इति वचनेन अपनीतम् हृदयाद् बहिर्निष्कासितम् । अधुना निर्वृताऽस्मि । भाविनं विश्लेषदुःखं नानुभविष्ये इति मत्वा स्वात्मानं सुखिनं मनुते । अत्र समयो नाम निर्वहणसन्ध्यङ्गम् । “समयो दुःखनिर्याणमिति" लक्षणात् ।
राजा-परमेश्वरेण महेन्द्रेण परम् अत्यन्तं अनुगृहीतोऽस्मि । महती खलु देवेन्द्रस्य कृपेत्यर्थः । अत्र आनन्दो नाम सन्ध्यङ्गमुक्तम् ।
नारदः-युक्तम् उचितमेवाभिहितम् ।
त्वदिति -वासवः इन्द्रः त्वत्कार्यं तव कार्यं कुर्यात् अभिलषितं वस्तु सम्पादयेत् , त्वञ्च तस्य इष्टस्य अभिलषितस्य कार्यस्य कर्ता भव, त्वं तस्य ईप्सितं सम्पादय । तवाभिलषितं इन्द्रः पूरयतु त्वञ्च तस्याभीप्सितं सम्पादय । तत्र दृष्टान्तः-सूर्यः अग्निं संवर्धयति । इति ह श्रूयते यत् यदा सूर्यः अस्तं याति तदा स्वीयं तेजः अग्नौ न्यस्यति तथा च अग्निः सूर्यं स्वतेजसा संवर्धयति पुष्णाति । "अग्नितेजो हि दिने सूर्यमनुप्रविशति रात्रौ सूर्यतेजोऽग्निमिति" पौरा-