सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३७
पञ्चमोऽङ्कः।

यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति ।
उत्सङ्गे वृद्धानां गुरुषु भवेत्कीदृशः स्नेहः ॥ १० ॥

 राजा-भगवति ! किमागमनप्रयोजनम् ।

  तापसी-सुणादु महाराओ। एसो दीहाऊ आऊ जादमेत्तो एव्व उव्वसीए किंवि णिमित्तमवेक्खिअ मम हत्थे णासीकिदो। जं खत्तिअस्स कुलीणस्स जादकम्मादिविहाणं तं से तत्तभवदा चवणेण सव्वं अणुट्ठिदम् । गिहीदविज्जो धणुव्वेदे अ विणीदो। [शृणोतु महाराजः । एष दीर्घायुरायुर्जातमात्र एवोर्वश्या किमपि निमित्तं अपेक्ष्य मम हस्ते न्यासीकृतः। यत् क्षत्रियस्य कुलीनस्य जातकर्मादिविधानं तदस्य तत्रभवता च्यवनेन सर्वमनुष्ठितम् । गृहीतविद्यो धनुर्वेदे च विनीतः ।]


 यदीति-यदि अयं मम पिता जनकः, अहञ्चास्य सुतः पुत्र इति श्रुत्वैव केवलम् इदं हार्दं विलक्षणं प्रेम जागर्ति तदा वृद्धानां उत्सङ्गे अङ्के पोषितानां बालानां गुरुषु पितृषु कीदृशः स्नेहः भवेत् । केवलं पितृपुत्रयोः तादृशसम्बन्धश्रवणमात्रेणैवालौकिकं प्रेम प्रादुर्भवति चेत् आजन्मतः पितॄणाम् अङ्के लालितानां शिशूनां पितृषु कीदृशं प्रेम भविष्यति । कुमारस्य मनसि राजानं विलोक्य हार्दं प्रेमाविर्बभूव । तदृष्ट्वा विचारशीलेन कुमारेण स्वानुभवतः प्रकाश्यते यज्जन्मतः अहमस्योत्सङ्गसुखमनुपलभमानोऽपि इत्थमासक्तस्तदा पित्रा सार्धं सदैव लालनपालनसुखमनुभवतः कियत् प्रेम भवेदित्यर्थ:।

 इयमार्याजातिः ॥ १०॥

 राजा-भगवति तापसि ! किमागमनप्रयोजनम् अत्रागमने को नाम हेतुः ?

 तापसी-शृणोतु महाराजः यदर्थमहमत्रागता । एष दीर्घायुश्चिरायुः आयुर्नाम कुमारः जातमात्र एव जन्मप्रभृति उर्वश्या अस्य मात्रा किमपि अविज्ञातं निमित्तं प्रयोजनमपेक्ष्य उद्दिश्य मम हस्ते न्यासीकृतः रक्षणपोषणाय निक्षिप्तः संस्थापित इत्यर्थः ।

 उर्वश्या केनाप्यज्ञातेनोद्देश्येन कुमारोऽयं जन्मतः मह्यं लालनपालनाय समर्पित इत्यर्थः।

 यत्कुलीनस्य सत्कुलोत्पन्नस्याभिजातस्येत्यर्थः, क्षत्रियस्य जातकर्मादिविधानं संस्कारादिकं तत्रभवता पूज्येन भगवता च्यवनेन महामुनिना सर्वं अनुष्ठितम् समाप्तम् । क्षत्रियकुलाचारानुसारं सर्वेऽस्य संस्काराः जातकर्मनामकरणमुख्याः च्यवनेन सम्पन्ना इत्यर्थः । अनेन बालस्य संस्कृतत्वं प्रकटितम् । धनुर्वेदे च गृहीतविद्यः, शस्त्रास्त्रविचक्षणश्चायमिति विनीतश्च निरभिमानी स्वसमुदाचारानुकूलाचरणशीलोऽयमिति बोधः । अत्र कार्योपक्षेपात् ग्रथनं नाम सन्ध्यङ्गमुक्तं भवति ।