उर्वशी-हिअअ! जं दाणी सि मं उझिअ इदो संकंतं तस्स फलं तुए उवलद्धं । [ हृदय ! यदिदानीमसि मामुज्झित्वा इतः संक्रान्तं तस्य फलं त्वयोपलब्धम् ।]
विदूषकः-आम । भो ! अहं पि जदा सिहरिणीं रसालं अण लहे तदा तं एव्व चिंतयंतो आसादेमि सुहं । [आम । भो! अहमपि यदा शिखरिणी रसालं च न लभे तदा तदेव चिन्तयन् आसादयामि सुखम् ।]
प्रथमचरणे “न चन्द्रमरीचयः" इत्यत्र “न वेन्दुमरीचयः" इति विधातव्यम् द्वितीयचरणे च "मलयजमपि प्रत्यङ्गं नो, न वा मणियष्टयः" इति कृते समाधानं भवितुमर्हति । किन्तु तृतीयचरणे “वा" पदम् केवलं "उपमायां विकल्पे वा" इत्यमरवचनात् विरुद्धमतिकृदेव, स च दोषः कथमपि वेतिपदं अवधारणार्थकं मत्वा अनवेक्षणीयः “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ॥ तथापि अवश्यंदेयस्य विरोधगमकस्य 'किन्तु' पदस्याभावान्न्यूनपदत्वं त्वस्त्येव इति दिक् ॥
अत्र च हरिणीवृत्तम् । यदुक्तं भगवता पतञ्जलिना "हरिणी न्सौ म्रौ स्लौ गृतुसमुद्रऋषयः ।" यस्य पादे नगणसगणमगणरगणसगणाः लघुगुरू च भवेयुस्तद्वृत्तं हरिणी नाम । अत्र षड्भिः चतुर्भिः सप्तभिश्च यतिः ॥ १०॥
उर्वशी-हृदयेति-हे हृदय ! मामुज्झित्वा परित्यज्य यदिदानी इतः अस्मिन् राजनि सकाङ्न्तं लग्नमसि तस्य फलं प्रियमुखेन लयि स्वीयप्रेमप्रकाशनरूपं त्वया उपलब्धम् प्राप्तमित्यर्थः । हे हृदय ! माम् विहाय यद्राजानमाश्रितवदसि तस्य त्वदर्थप्रीतिज्ञानरूपफलं त्वयाधिगतमेवेति भावः । उज्झित्वेति---- ओहाक् त्यागे तृतीयगणधातोः त्वाप्रत्ययः । इतः-अत्र सप्तम्यर्थे तसिल् “सार्वविभक्तिकस्तसिल्"।
विदूषकः-आमेति-आमेति आनुकूल्ये समर्थने वा । अहमपि यदा शिखरिणीं भोज्यविशेषं रसालं पक्वाम्रफलं न लभे प्राप्नोमि तदा तदेव शिखरिणीरसालादिकं चिन्तयन्नेव सुखम् आसादयामि लमे ।
शिखरिणी-एलालवङ्गकर्पूरादिविविधसुगन्धिद्रव्यमिश्रितो दुग्धेन सह गालितसितासङ्गतः पक्वकदलीफलान्तःसारः शिखरिणीत्युच्यते ।
विदूषको राजानं कथयति यत् यदा शिखरिणीरसालादि मदीयं प्रेयः
वस्तु नाहं प्राप्नोमि तदा तस्य चिन्तनेनैव मे मनः विनोदयामि तथैव त्वमपि
स्वीयमनःसागरशशिलेखामुर्वशीमनधिगच्छन् तस्याः ध्यानेनैव स्वमनः प्रसादः
येति पूर्वोक्तं वस्तु समर्थयति ।