पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
तृतीयोऽङ्कः

 राजा-सम्पद्यते इदं भवतः ।

 विपक:-तुमं वितं अइरेण पाविहिसि। त्वमपि तामचिरेण प्राप्स्यसि ।]

 राजा-सखे ! एवं मन्ये ।

 चित्रलेखा-सुणु असंतुट्ठे । [शृणु असन्तुष्टे !]

 राजा-

इदं तस्याः रथक्षोभादसेनासं निपीडितम् ।
एकं कृति शरीरेऽस्मिन् , शेषमङ्गं भुवो भरः॥ ११ ॥


 राजा-भवतः एतत्सर्वं खाद्यं सम्पद्यते प्राप्यते । भवत्प्रेयः वस्तु सर्वं सुलभमिति भावः । मद्धृदयाभिलाषस्तु कृच्छ्रसम्पाद्य इति तारतम्यं दर्शयति ।


 विदूषकः-त्वमपि तामुर्वशीमचिरेण शीघ्रमेव प्राप्स्यसि । अत्र विच्छिन्नस्य बीजस्य पुनः समुद्भेदसम्भावनं विहितमिति स्मरणीयम् ।

 राजा-सखे वयस्य ! एवं मन्ये-इदं तर्कयामि यत्-इति आगामिना श्लोकेन सम्बध्यते।

 चित्रलेखा-"एवं मन्ये इति" राज्ञः पूर्वोकिं "शीघ्रमेव ता लप्स्ये" इति तर्कयामीत्यर्थावबोधिकां मत्वा "शृणु असन्तुष्टे” इति वाचमुदाजहार । किमतः परमुच्यते इति कुतूहलम् ।


 राजा-इदमिति-रथक्षोभात् उच्चावचप्रदेशेषु रथचक्रोद्घातात् इदं मदीयमंसं तस्याः उर्वश्याः अंसेन स्कन्धदेशेन निपीडितम् सङ्घर्षितम् । अतः अस्मिन् समग्रे शरीरे एकमङ्गं कृति कृतार्थम् , तथा च तव्द्यतिरिकं शेषमङ्गं भुवः पृथिव्याः भरः भारभूतं निरुपयोगि एवास्ते ।

 केशिना गृहीतां उर्वशीं परित्रातुं गतस्य राज्ञः तं विद्राव्य प्रत्यागच्छतः एकस्मिन्नेव रथे समारूढस्य स्कन्धदेशः रथक्षोभात् तस्याः स्कन्धात् परस्परं सङ्घर्षमाप्तवान् । तदुपरि राजा मनुते यथा तदेवाङ्गं धन्यं इतरत्तु भुवि भारभूतमेव ।

 अनेन राज्ञः मनसि तद्विषयको बहुमानो व्यक्तः । यतः नायकनायिकयोः पारस्परिकाङ्गसंस्पर्शजन्यं सुखं विलक्षणमेव भवतीति अनुभवमात्रगम्यम् । यथा च-"असावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः, अयं कण्ठे बाहुः शिशिरमसृणे मौक्तिकसरः" इति भवभूतिः ।

 कृतमनेनेति कृति कृतार्थम् , यथा वा शाकुन्तले----

 "वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" अत्रांसस्य कृतार्थत्वस्य तर्क्यमाणत्वात् इह "रूपं" नाम गर्भसन्ध्यङ्गमुक्तं भवति । यदाह दर्पणकार:-"रूपं वितर्कवद्वाक्यम्"। वितर्कवत् तर्क्यमाणमिति दाधीचपन्डितः। अनुष्टुप् वृत्तम् ॥११॥