सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
एकादशः सर्गः ।

स्वेति प्रतिपदं पदे पदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुर्निद्रया अविशदवर्णामस्पष्टाक्षरामत एव शून्यशून्यां शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः । 'प्रकारे गुणवचनस्य' (८।१।१२) इति द्विर्भावः 'कर्मधारयवदुत्तरेषु' (८।१।११) इति कर्मधारयवद्भावादवयवसुपो लुक् गिरमयमहं जागर्मीति प्रतिवाचं दददपि प्रयच्छन्नपि । 'नाभ्यस्ताच्छतुः' (७।११७८) इति नुमागमप्रतिषेधः । अन्त: अन्तःकरणे नो बुध्यते न जागर्ति । बुध्यतेर्दैवादिकात्कर्तरि लट् । अत्राप्रबोधप्रतिवचनदानयोर्विरोधे अपिशब्दः । निद्राह्वानाभ्यां तत्समाधानाद्विरोधाभासोऽलंकारः ॥४॥

  विपुलतरनितम्बाभोगरुद्धे रमण्या:
   शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
  रतिपरिचयनश्यन्नैद्रतन्द्रः कथंचि-
   द्गमयति शयनीये शर्वरी किं करोतु ॥५॥

 विपुलेति ॥ रमण्या विपुलतरस्य नितम्बस्याभोगेन विस्तारेण रुद्धे आक्रान्ते शयनीये शयितुमवकाशमनधिगच्छन्नलभमानो जीवितेशः प्रेयान् रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैद्री निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरी कथंचिद्गमयति कृच्छ्रेण नयति । किं करोतु किमन्यत्कुर्यात् । शयनानवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अत्र शयनीयस्येदृग्रोधासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरलंकारः। तादृग्रोधस्य विशेषणगत्या शयनावकाशानधिगमहेतुत्वात्काव्यलिङ्गभेद इति संकरः ॥ ५॥

  क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा-
   नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
  गहनमपररात्रप्राप्तबुद्धिप्रसादाः
   कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ६॥

 क्षणेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विसुप्ता विबुद्धाः तदैव प्रबुद्धाः । यथाकालं प्रबुद्धत्वादिति भावः । क्षणशयितविबुद्धाः । स्नातानुलिप्तवत् 'पूर्वकाल -' (२।१।४९) इति समासः । महीपाः कवय इव अपररात्रे । रात्रेः पश्चिमयाम इत्यर्थः । 'पूर्वापर-' (२।२।१) इत्यादिना एकदेशिसमासे समासान्तोऽच् । 'रात्राह्नाहाः पुंसि' (२।४।२९) इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादा लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्रगम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये इव काव्यवत् । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । प्रयोगान् सामाद्युपायानुष्ठानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान् कल्पयन्तस्तर्कयन्तः 'ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्' (याज्ञ० आचा०-अ० ११५) इति स्मरणादिति भावः ।

गहनं दुष्प्रापमन्यत्र दुर्दर्शमर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थः । अन्यत्र


शिशु० २३