पतङ्गमृगराजीत्यत्राप्युपमितसमासाश्रयणेनोपमैवोचिता, तथापि तदुत्प्रेक्षायाः पतङ्गेऽसंभवात् सिंहे संभवाच्च रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेक्षे- यमुपमेति च संकरः । तत्रोत्प्रेक्षया भ्रान्तिमदुपमया रूपकं च व्यज्यत इत्यलंका- रेणालंकारध्वनिरिति संक्षेपः॥ १८॥
व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥१९॥
व्यसरदिति ॥ बहलपङ्करुचि सान्द्रकर्दमच्छवि दिवसावसाने दिनान्ते पटुनः समर्थस्य तमसः पटलं भूधरगुहानामन्तरतोऽभ्यन्तरादेत्यागत्य बहिर्गवाक्षप्रदेशे व्यसरन्नु विस्तृतं वा, बहिर्बाह्यदेशादेत्य गुहा अधिकं भृशमभक्त च भजते स्म । किं प्रविष्टं वेत्यर्थः । भजतेर्लुङि तङ् 'झलो झलि' (८|२।२६) इति सकार- लोपः । अत्र व्यापकत्वसादृश्यात्तमसोऽन्तर्बहिरपादानकत्वसंदेहात्संदेहालंकारः १९
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन निरधारि तमः॥२०॥
(युग्मम्)
किमिति ॥ प्रचुरीभवद्वहुलीभवत्तमः कर्तृ, किमम्बरविलग्नमाकाशस्थं सत् अधो भूतलं प्रति अलम्बतास्रंसत किमिव अवनीतलतो भूतलादूर्ध्वमुपरिष्टादवर्धत किम् । अथ दिग्भ्यस्तिर्यग्विससार विस्तृतमिति न निरधारि । अधोलम्बनादीना- मन्यतमं नावधारितमित्यर्थः। धारयतेः कर्मणि लुङ् । अत्रापि पूर्ववत्संदेहा- लंकारः ॥ २०॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१॥
स्थगितेति ॥ स्थगिते तिरोहिते अम्बरक्षितितले येन तसिंस्तिमिरे परितो जनस्य दृशमन्धयति अन्धां कुर्वति सति सुदृशः स्त्रियोऽपूर्व नूतनं रसाञ्जनं रसं रागमेवाञ्जनं, सिद्धाञ्जनं च दधिरे दधुः । अतो हेतोः प्रियवेश्मवर्त्म ददृशुः । अत्र रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननादलंकारेणालंकारध्वनिः ॥ २१ ॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥
अवधार्येति ॥ सान्द्रतमं यत्संतमसं व्यापकं तमः । 'विष्वक्संतमसम्-' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' (५।४।७९) इति समासान्तोऽच् प्रत्ययः । तत्कर्तृ सुतनोः शुभाङ्गया दयितोपगमे प्रियाभिसरणे कार्यगुरुतां संभोगकार्यस्या- वश्यकत्वमवधार्य निश्चित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोम- राजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय। 'ट्वितोऽथुच्' (३।३।८९)
इत्यथुच् प्रत्ययः । नाभवतामिति विपरिणामेनानुषङ्गः । कार्यासक्तस्य तत्रापि