सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
द्वितीयोऽङ्कः

 विदूषकः-अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्ठसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]

 राजा-प्रतिगृहीतं ब्राह्मणवचनम् ।

(इति परिक्रामतः।)

 विदूषक:-पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमदवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]

 राजा-नूनं प्रतिपदमेव तावदवलोकयामि ; अत्र हि----

  अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयो-
   र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।


 विदूषकः-भवतः परिदेवितेन विलापेनालम् । नास्ति काचनापेक्षा विलापस्येति । अलमिति पर्याप्तम् । मा कुरु विलापमिति भावः। अचिरेण शीघ्रमेव इष्टस्य अभीप्सितस्य वस्तुनः सम्पादयिता प्रापकः अनङ्गः कामदेवः एव ते अस्मिन् कार्ये सहायः सहकारी भविष्यति । काम एव सत्वरं स्वयं सर्वं सङ्गमधिष्यते अतो भवता तदर्थं न विलपितव्यमिति भावः ।

 राजा-ब्राह्मणस्य तव वचनं इष्टसम्पादकं वचः प्रतिगृहीतम् स्वीकृतम् । अनुगृहीतोऽस्मि ब्राह्मणवचसा ।

 [इति परस्परालापं कुर्वन्तौ विक्रमविदूषकौ प्रमदवने इतस्ततः तदीयशोभां निरूपयन्तौ मनोविनोदकारणं मार्गयन्तौ परिक्रामतः।]

 विदूषकः-प्रेक्षतामिति । भवान् अस्य प्रमदवनस्य वसन्तस्य ऋतुराजस्यावतारः प्रादुर्भावस्तेन सूचितं प्रकटीकृतमभिरामत्वं सौन्दर्यं प्रेक्षतां पश्यतामिति ।

 राजा-नन्विति । नन्ववधारणे । प्रमदवनस्य कमनीयतां प्रतिपदं स्थाने स्थाने अवलोकयामि । सर्वत्रैव रामणीयकरञ्जितमिदं प्रमदवनमाभातीति भावः । पदे पदे इति प्रतिपदम् इति वीप्सायां प्रतिपदप्रयोगः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः” इत्यमरः । “अत्र हि" इति चूर्णकस्थं पदद्वन्द्वं प्रमदवनमेव बोधयति ।

 अग्र इति-सखे माणवक ! अत्र हि अस्मिन् प्रमदवने अग्रे पुरत एव स्त्रीणां नखानि तद्वत्पाटलं श्वेतारुणं कुरबकं तदाख्यं कुसुमं तिष्ठति वर्तते । परत्र च द्वयोर्भागयोः पार्श्वभागयोः श्यामं, उपोढः सविशेषो रागः यस्य तेन च सुभगं बालाशोकं तत्कुसुमं च भेदोन्मुखं विकसनोत्सुकम् तिष्ठति । एकतः कुरबकः परतश्च बालाशोकः स्तः । तयोर्मध्ये चूते सहकारतरौ लग्ना ईषत् स्वल्पं बद्धं विद्यमानं