पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
विक्रमोर्वशीये

 विदूषकः-कहं विअ ? [कथमिव ?]

 राजा---

  इदमसुलभवस्तुप्रार्थनादुर्निवारं
   प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
  किमुत मलयवातोन्मूलितापाण्डुपत्रै-
   रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥


नेदम् मां सान्त्वयितुं पारयति । स्रोतसा जलप्रवाहेणोह्यमानस्य प्रापितस्य नीयमानस्य वा जनस्य यथा प्रतीपतरणं प्रवाहवेगस्य प्रतिकूलतरणं दुःखाकरं भवति एवमेव ममात्रागमनम् । यथा जलगतेः विरोधिप्लवनं केवलं दुःखायैव सम्पद्यते तथैवोद्यानप्रवेशः मां पीडयत्येवेति सारः । अघपदस्य दुःखार्थवाचकत्वमपि "अघं दुःखे व्यसनैनसो"रिति हैमवचनप्रामाण्यात् । विविक्षुरिति वेष्टुमिच्छुरिति सन्नन्तादुः । उपमालङ्कारश्च । अनुष्टुब् वृत्तम् ॥ ५ ॥

 विदूषकः-कथमिव-कथं नेदमुद्यानं दुःखनाशकमिति पृच्छति ।

 राजा-इदमिति -पञ्च बाणाः यस्य सः कामः इदं मदीयं असुलभं सौकर्येणालभ्यं यद्वस्तु तद्विषयिणी या प्रार्थना अभिलाषस्तस्मिन् दुःखेन निवारयितुं निरोद्धुं शक्यं मनः प्रथममपि आदौ एव क्षिणोति कृशयति । असुलभं यदुर्वशीरूपं वस्तु तस्मिन् साभिलाषं मदीयं मनः आदावेव मदनः कृशीकरोति । प्रथममेवाहं सन्तप्तोऽस्मीति भावः । पुनश्च मलयवातोन्मूलितापाण्डुपत्रैः मलयाचलतः वहता वातेन उन्मूलितानि पातितानि आपाण्डूनि ईषत्पीतान्यत एव पक्वानि पत्राणि येषां तैः उपवनसहकारैः उद्यानस्थाम्रवृक्षरङ्कुरेषु दर्शितेषु सत्सु किमुत का वा मे मनसः कथा । प्रथमं सहकारदर्शनमेवोद्दीपनम् । पुनश्च तेषु अङ्कुरोद्गमः समुद्दीपनम् , तथा च आपाण्डुपत्राणामभावेन नितान्तसौन्दर्यशालित्वेन सहकारस्य विशेषोद्दीपकत्वं तथा च मलयवातोन्मूलितत्वात्तस्य मलयाचलतो वहत अत एव सुगन्धिनः वायोस्तत्र सद्भावात् अत्यन्तमेवोद्दीपकत्वमिति गम्यते । तेन च भावस्तावदित्थमस्ति यत् प्रथममेव मे दुर्लभवस्तुकांक्षि मनः अनङ्गेन सन्तप्तं एवास्ति तत्रापि च पुनः मलयवातेन पातितानि शुष्कपत्राणि येषां तेषु सहकारेषु अङ्कुरदर्शनेन कीदृशी विरहव्यथा मे मनसि सञ्जायेतेति न ज्ञायते इति सारः। अत्र उत इति वितर्के ।

 अत्र नायिकागतरतेरुपकारकः उद्दीपनाख्यो विभावो वर्णितः। अपि चात्र विधानाख्यं मुखसन्ध्यङ्गम् । यदाह धनञ्जयः-"विधानं सुखदुःखकृत् ।" अत्र विप्रलम्भशृङ्गारपरिपोषिणां वितर्कौत्सुक्यचिन्तानां भावानां व्यज्यमानत्वाद्भावशबलता।

 अत्र च मालिनीवृत्तम् । तल्लक्षणं तु “ननमयययुतेयं मालिनी भोगिलोकैः । यस्मिन्न् वृत्ते नगणद्वयं मगणं यगणयुग्मं च भवति तद्वृत्तं मालिनी नाम । तत्र च अष्टाभिः सप्तभिश्च यतिरस्ति ॥ ६॥