सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
शिशुपालवधे

च्छन्ना इत्यर्थः । अत एवेन्द्रगजाजिनमैरावतचर्म तदेव कञ्चुकः कूर्पासको यासां ता इव स्थिता इत्युस्प्रेक्षा । दिशो ददृशुः । उक्तालंकारयोः संसृष्टिः ॥ ५१ ॥

विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसंभवाम् ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुदक्षिपत् ॥ ५२ ॥

 विलुलितामिति ॥ शरदेवाङ्गना इति रूपकम् । अनिलैर्विलुलितां विक्षोभितां नवसरोरुहकेशरसंभवां धूलिं परागं परिहासविधित्सया नर्मरीतिचिकीर्षया । दधातेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । हरिवधूः विकरितुं विक्षेप्तुमिव । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' (३।३।१०) इति तुमुन्प्रत्ययः । उदक्षिपत् प्रेरितवती । रूपकोज्जीवितेयमुत्प्रेक्षा । किरतिरयं कीर्यमाणकर्मा । यथा रजः किरति मारुतः । क्वचित्तत्कारकोद्देश्यकर्मा यथात्रैवेति विवेकः ॥ ५२ ॥

हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ५३

 हरितेति ॥ अभिताम्रमुख्यरुणमुखी । 'स्वाङ्गाच्चोपसर्जनात्-' (४।१।५४) इत्यादिना विकल्पान्ङीष् । शुकावलिर्मरुद्गणैः सुमनोगणैर्दिवि तता हरिप्रियार्थमाकाशे वितता हरितानां हरिद्वर्णानां पत्राणां विकारो हरितपत्रमयी। 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना विकल्पात् डीए । तयावनद्धा ग्रथिता मनोरमाः पल्लवा यस्यां सा स्रगिवेत्युत्प्रेक्षा । मधुरिपोः कृष्णस्य मुदं विततान ॥ ५३ ॥

सितसरोरुहनेत्रसरोजलामतिसिताङ्गविहंगहसद्दिवम् ।
अकलयन् मुदितामिव सर्वतः स शरदं शरदन्तुरदिसुखाम् ५४

 स्मितेति ॥ स हरिः स्मितानि विकसितानि सरोरुहाण्येव नेत्राणि येषु तानि सरोजलानि यस्यां तां तथोक्तामतिसिताङ्गा धवलपक्षा ये विहङ्गा हंसास्तैर्हसन्ती स्मयमानेव स्थिता द्यौर्यस्यां तां तथोक्तां शरैस्तृणविशेषैर्दन्तुराण्युन्नतदन्तानि । हासात्प्रकाशदशनानीति यावत् । 'दन्त उन्नत उरच्' (५।२।१०६) इत्युरच्प्रत्ययो मत्वर्थीयः । तानि दिङ्मुखानि यस्यां तां शरदन्तुरदिङ्मुखां शरदं सर्वतो मुदितामिवाकलयत् । सर्वत्र नेत्रविकासादिलिङ्गैर्हृष्टामिवामन्यते इत्यर्थः । अत्र सरोजहंसशरेषु नेत्रहासदन्तत्वारोपणाद्रूपकालंकारः । तद्वशात्प्रतीयमानाङ्गनाभेदाध्यवसायाच्छरदि मुदितत्वोत्प्रेक्षेति संकरः ॥ इति शरद्वर्णनम् ॥ ५४ ॥

 अथ हेमन्तं वर्णयति-

गजपतिद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।
सलिलसंततिमध्वगयोपितामतनुतातनुतापकृतं दृशाम् ॥ ५५ ॥

 गजपतीति ॥ गजपतिः प्रमाणमासां गजपतिद्वयसीर्महागजप्रमाणाः । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' (५।२।३७) इति प्रमाणार्थे द्वयसच् प्रत्ययः । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । ता अपि सरितस्तुहिनयन् हिमीकुर्वन् । 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । हेमन्ते भवो हैमनः । 'सर्वत्राण्च तलोपश्च' (४।३।२२) इति हेमन्तशब्दाच्छैषिकोऽण् प्रत्ययः तकार-