पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
षष्ठः सर्गः ।

कारणभूता कमलदर्शनोत्था मुखस्मृतिर्व्यज्यत इति वस्तुनालंकारध्वनिः । एतेन स्त्रीमुखसादृश्यात् कमलं स्वाधारेऽम्भसि पुंस उत्सुकतामलम्भयदिति रङ्गराजव्याख्यानं 'काकस्य कार्ष्ण्याद्धवलः प्रासादः' इतिवदसंगतं मन्तव्यमिति । अलम्भयदिति लभेर्ण्यन्ताल्लङ् 'लभेश्च' (७।४।६४) इति नुमागमः । लभेश्चात्र प्राद्युपसर्जनकगत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वे द्विकर्मकता । गत्युपसर्जनकप्राध्यर्थत्वे तु वैपरीत्यमित्युक्तं 'सितं सितिम्ना' (१२५) इत्यत्र ॥ ४८ ॥

विगतसस्यजिघत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः॥ ४९ ॥

 विगतेति ॥ इषे आश्वयुजमासे । 'स्यादाश्विन इषोऽप्याश्वयुजः' इत्यमरः । कलमगोपी शालिगोप्त्री सा चासौ वधूश्च कलमगोपवधूः । 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । श्रुत आकर्णितस्तया वध्वा ईरितस्यालापितस्य कोमलगीतकस्य मधुरगानस्य ध्वनिर्येन तं श्रुततदीरितकोमलगीतकध्वनिम् । अत एवाग्रतोऽग्रे न निमिषति विस्मयानन्दाभ्यामित्यनिमिषम् । इगुपधलक्षणः कप्रत्ययः । तदीक्षणं यस्य तमनिमिषेक्षणम् । घस्तुमत्तुं वेच्छा जिघत्सा । घसेरदादेशाद्वा सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इति स्त्रियामप्रत्ययः । विगता सस्यस्य जिघत्सा यस्य तं विगतसस्यजिघत्सम् । उपसर्जनाङ्गस्वः । मृगव्रजं नाघट्टयन्नाताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डसाध्ये मृगनिवारणे काकतालीयन्यायेन सुखार्थस्य गानस्य कारणत्वकथनात् समाधिरलंकारः । 'कारणान्तरयोगात् कार्यसुकरत्वं समाधिः' इति सूत्रात् ॥ ४९ ॥

कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ५०

 कृतेति ॥ अयुजो विषमाश्छदा येषां ते अयुक्छदाः सप्तपर्णास्तेषां गुच्छैः स्तबकैः सुगन्धयः शोभनगन्धाः । गजमदगन्धिन इति भावः । अलिभिर्भृङ्गैस्तेता विस्तृता गानगिरो येषां ते । अलिभिर्गीयमाना इत्यर्थः । सततं गच्छन्तीति सततगाः सदागतयः । वायव इति यावत् । कृतमदं जनितमदं अत एवाकुलीकृतजगत्रयम् । ऊर्जः कार्तिकः । 'बाहुलोर्जौ कार्तिकिकः' इत्यमरः । स एव मतङ्गज इति रूपकम् । तं निगदन्त इव अयमागच्छतीत्यावेदयन्त इव ववुर्वान्ति स्म । मत्तमातङ्गगमनेऽप्येवंविधवायुवहनसंभवादियमुत्प्रेक्षा । रूपकं त्वङ्गमस्याः ॥ ५० ॥

विगतवारिधरावरणाः क्वचिद्ददृशुरुल्लसितासिलतासिताः।
क्वचिदिवेन्द्रगजाजिनकञ्चकाः शरदि नीरदिनीर्यदवो दिशः ५१

 विगतेति ॥ शरदि यदवो यादवाः । यदुशब्देन रघुशब्दवत्तदपत्ये लक्षणा । जनपदशब्दानामेव 'तद्वाजस्य बहुषु-' (२।४।६२) इति लुक्संभवादिति । क्वचिद्विगतवारिधरावरणा निवृत्तमेघावरणाः अत एवोल्लसिता कोशादुद्धृता । असिर्लतेवासिलता तद्वदसिताः श्यामा इत्युपमा । क्कचिन्नीरदिनीर्मेघवतीः । शुभ्राभ्रपटल-