प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरनाचितमङ्गनाः ॥ ८॥
प्रियसखीति ॥ गुरोर्महतो मत्सरस्य द्वेषस्य छिदुरया छेञ्न्या । 'विदिभिदि- च्छिदेः कुरच्' (३।२।१६२)। काम्यगिरा ग्राह्यवाचा परपुष्टया कोकिलया प्रियसख्या सदृशं यथा तथा किमपि परैर्दुर्बोधं रहस्यं हितं प्रतिबोधिता उपदिष्टा अङ्गनाः प्रियतमाय अयाचितमप्रार्थितमेव वपुर्निजाङ्गम् अदुरर्पयामासुः । ददातेर्लुङि 'गातिस्था-' (२।४/७७) इत्यादिना सिचो लुक् । कोकिलाकूजितश्रवणानन्तरमे- चाङ्गार्पणादौत्सुक्यहेतुकाद्यनन्तरन्यायेन तथा किमपि बोधिता इत्युत्प्रेक्षा ॥ ८॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः॥९॥
मधुकरैरिति ॥ मधुकरैः कर्तृभिः । अपवादं मृगवञ्चनाय घण्टादिकुत्सित- वाद्यं कुर्वन्तीत्यपवादकरा व्याधास्तैरिव पथिका हरिणा इव परिवादिनीस्वर- जिता वीणाविशेषध्वनिजयिन्या । 'सप्तभिः परिवादिनी' इत्यमरः । जेः क्विपि तुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः । आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्तात्कर्मणि क्तः । रञ्जो मृगरमणे-' (वा०) इति उपधानका- रलोपः । इहोपमानमृगसादृश्यादौपचारिकं मृगत्वम् उपमेयेषु पथिकेष्वस्तीत्यवि- रोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वान्मृगग्रहणगर्तदेशस्य च वश- माययुः । यथा व्याधगानासक्त्या गर्ते मृगाः पतन्ति तद्वन्मधुकरहुंकाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकैवेयमुपमा ॥ ९ ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया ।
अविनमन्न रराज वृथोचकैरनृतया नृतया वनपादपः ॥१०॥
समभिसृत्येति ॥ प्रमदया कर्व्या कुसुमानामवचिचीषया अवचेतुमिच्छया । रिरसयेति भावः । चिन्तेतेः सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इति स्त्रिया- मकारप्रत्ययः । 'विभाषा चेः' इति विकल्पात् कुत्वाभावः। रसादागात् समभिसृत्य समागत्यावलम्बितो हस्तेन गृहीतस्तथाप्यविनमन् वशमगच्छन् अत एव वृथोच्च- कैर्व्यर्थमुनतो वनपादपः । न तु नागरिक इति भावः । न ऋतेत्यनृता असत्या तथा अनृतया नुर्भावो नृता तया नृतया पुंस्त्वेन रराज । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । यः कान्ताकरगृहीतोऽपि न द्रवति स नपुंसक एव, लौकिकस्तु पुंस्त्वव्यपदेशो मिथ्यैवेति भावः ॥ १०॥
अथ कश्चित्स्वयंग्रहाश्लेषसुखार्थ प्रियामलिपातेन भीषयंस्त्रिभिः कुलकेनाह-
इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥११॥
इदमित्यादि ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यया सा तथोक्ता तस्याः संबुद्धिर्जितस्तबकानमन्नवलते स्तबकानमन्नवलतोपमे [* अत्र 'विशेषकेन' इति पाठः साधीयान् , यतः-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः
श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ।' इति तल्लक्षणात् । ]