पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
षष्ठः सर्गः ।

दलन्ति विकसन्ति कुवलयानि यस्मिन्कर्मणि तद्यथा तथा वलयंश्वालयन् । शीतल इति भावः । मरुद्वसन्तवायुराववौ आवाति स्म ॥३॥

 तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
 गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ४

 तुलयतीति ॥ कुरबकस्तबके व्यतिषङ्गिणि लग्ने अत एव गुणवतः शुक्लगुणस्य कुरबकस्तबकस्याश्रयेणाश्रयणेन लब्धो गुणोदयो निजनीलिमगुणोत्कर्षो येन तस्मिन् । धवले नीलस्य स्फुरणादिति भावः । अलिनि भ्रमरे मलिनस्य भावो मलिनिमा कृष्णत्वं माधवयोषितां हरिवधूनां विलोचनानां तारकाः कनी- निकाः। 'तारकाक्ष्णः कनीनिका' इत्यमरः । तुलयति स्म समीचकार । तद्वद्ध- भावित्यर्थः । तुलाशब्दात्सदृशपर्यायात् 'तत्करोति-' (ग०) इति ण्यन्तात् 'लट् स्मे' (३।२।११८) इति भूते लट् । उपमालंकारः ॥ ४ ॥

 स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
 विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ५

 स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैर्युतम् । चम्पक- समूहमध्यगतमित्यर्थः । स्फुटं विकचमशोकपुष्पं भिदा भेदः । 'षिद्भिदादिभ्यो- ऽङ्' (३।३।१०४) तां बिभर्ति यत्तस्य भिदाभृतो भिन्नस्य विरहिणां हृदयस्य हृदयपिण्डस्य संबन्धि मदनाग्निना कपिशितं कपिशीकृतं पिशितं मांसमिवाशो- भतेत्युप्रेक्षा ॥ ५॥

 स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः ।
 निपतिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥६॥

 स्मरेति ॥ आम्रवणस्य चूतवनस्य । 'आम्रश्चूतो रसालश्च' इत्यमरः । 'प्रनिरन्तःशर-' (८/४/५) इत्यादिना वननकारस्य णत्वम् । रजःकणाः पराग- चूर्णाः स्मरहुताशनः कामाग्निः स एव मुर्मुरस्तुषाग्निः 'मुर्मुरस्तु तुषानलः' इति वैजयन्ती । तस्य चूर्णतां दधुरिवेत्युत्प्रेक्षा । अतो मुर्मुरचूर्णत्वादेव परित उपरि निपतितास्ते रजःकणाः पन्थानं गच्छन्तीति पथिकाः । 'पथः कन्' (५।१।७५) इति कन्प्रत्ययः । तेषां व्रजान् भृशं परितेपुः परितापयामासुः । अतो मुर्मुरचूर्ण- त्वोत्प्रेक्षणमिति भावः ॥ ६॥

 रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
 बकुलपुष्परसासवपेशलध्वनिरगानिरगान्मधुपावलिः ॥ ७ ॥

 रतिपतीति ॥ प्रियतमेषु विषये कृतक्रुधः कृतरुषः । 'प्रतिघा रुट्क्रुधौ स्त्रियाम्' इत्यमरः । वधूरनुनायिकाः कुपितस्त्रीरनुनेष्यन्ती । 'तमुन्ण्वुलौ क्रियायां क्रियायाम्' (३।३।१०) इति भविष्यदर्थे ण्वुल् प्रत्ययः । 'अकेनोर्भ- विष्यदाधमर्ण्ययोः' (२।३।७०) इति षष्ठीप्रतिषेधाद्वधूरिति द्वितीया । रतिप- तिना कामेन प्रहिता प्रेषितेव तद्वाणीश्रवणानन्तरमेव तासां कोपत्यागदर्शनादिय- मुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्पानेन पेशलध्वनिर्मधु- रस्वरा मधुपावलिः कर्त्री न गच्छतीत्यगादृशान्निरगान्निर्गता । इणो गा लुङि'

(२।४।४५) इति गादेशः ॥ ७ ॥