सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७२
विक्रमोर्वशीये

स्तनांशुके सज्जन्ते इति अतः हरितं स्तनांशुकं रक्तबिन्दुभिरन्तरा कर्बुरितं दरीदृष्टं तच्च सेन्द्रगोपे नवशाद्वले स्तनांशुकभ्रान्तेः जनकमिति तात्पर्यम् । चारुतरं भवेदिदं कल्पनं यदिदं परिकल्प्यमानं स्तनांशुकं केवलं कुचाच्छादनमात्रं (भाषायां 'चोली'ति प्रसिद्धं ) नासीत् , किन्तु आनाभिविलम्बि कविमनसि अभिमतमासीत् । नूनं रुचिरमतीवेदं कालिदासीयं पद्यमित्यत्र सहृदयाः प्रमाणम् । अश्रूणां तादृशाधःपातवर्णनं कविनान्यत्रापि-"स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्दवः ॥ (कुमार. ५।२४)॥

 एवमेवाश्रुबिन्दूनां रङ्गरञ्जितत्वं कल्पयन्ती पारसीकभाषायां कियच्चमत्कारि कवयित्री झेबुन्निसा बभाणेति सहृदयानां मनः भूयः सभाजयितुं अदो दीयते- अष्टादशे शतके भारतीयपातिशाहस्यौरङ्गजेबस्यात्मजा झेबुन्निसा साहित्यार्णवावगाहमाना रात्रिन्दिवं काव्यव्यापारमेवाजुषत । काव्यकलाविमुखस्तु पातिशाहः स्वदुहितुस्तादृशं व्यापारं अननुमन्वानः ताञ्च ततो निरोद्धुमप्यशक्नुवानः एकदा स्वसभायां पण्डितानाह यत्कथमियं मे तनया काव्यव्यसनं परित्यजेदिति मे महान् व्यग्रत्वहेतुः । तन्निशम्य सभासदैः मौलवीमौलिभूतैः द्रागेवोक्तं यदेकस्मिन्नहनि वयं देवचरणसन्निधौ तस्यै क्लिष्टतमां प्रहेलिकामेकां दास्यामः, यदि सा तामुत्तरयितुं प्रभविष्यति तदा सा स्वव्यसनमनुसरतुतमां, नो चेत्तस्मिन्नेवाहनि काव्यकलाश्लाघाभिसन्धिस्तया विहातव्येत्यभिसन्धिः । प्रस्तावममुं पातिशाहेनोमित्युक्त्वा अनुसर्तुं नियुक्तं तावदेकं दिनं तत्प्रहेलिकाप्रदानाय । प्राप्ते च तस्मिन्नहनि तस्यां विद्वत्संसदि सा कवयित्री पृष्टा-

"दुरे अबलक कसे कमदीद मौजूद ?"

[दुरे (मुक्ताफलानि ) अबलक (श्यामरञ्जेन मिश्रितानि ) कसे (केन ) कमदीद (दृष्टव्यानि ) मौजूद (लभ्यमानानि )] तात्पर्यं तु-अयि ! क्वचित् कर्बुराणि मुक्ताफलानि वीक्षितानि किमु ? प्रहेलिकामिमां निशम्य तदुत्तरमाशु दातुमशक्नुवानायाः इदानीं राजाज्ञया मया काव्यामृतसेवनं विहातव्यं भवेदिति खेदवशात्तस्याः कज्जलाङ्कनरुचिराभ्यां नयनाभ्यां अस्रबिन्दवः पेतुः । एवं जाते द्रागेव तया सहृदयया कवयित्र्या कियत्सुन्दरमभिहितं “बजुज़ अशके वुताने सुर्मा आलूद" ॥ [बजुज़ (विना ), अशके ( अश्रुभिः) बुताने (कामिन्याः) सुर्मा (कज्जलेन ) आलूद (मिश्रैः)] तात्पर्यं तु-कामिन्याः कज्जलमिश्रैरश्रुभिर्विना न क्वचिदपि सन्ति दरीदृश्यमानानि श्यामाकानि मुक्ताफलानीति प्रत्युत्तरम् । सर्वे सदस्याः चकिता बभूवुः पातिशाहोऽपि प्रसादमवाप । इदमेवानवद्यं पारसीकपद्यमनूद्य "हृतौष्ठरागैर्नयनोदबिन्दुभिः” इति कल्पनामञ्जुलं कालिदासीयपद्यसब्रह्मचारिणं निर्माय पद्यं गीर्वाणवाणीजुषां रसचर्वणासौकर्यमुपगन्तुमुपरिष्ठाद् दीयतेऽस्माभिः-

"मौक्तिकानि शबलानि केनचित् वीक्षितानि रुचिरे! क्वचिद्वद ॥
नान्तरेण नयनाञ्जनस्पृशं बाष्पबिन्दुनिवहं भृगीदृशः॥” इति