लक्ष्मीस्वयंवरे उर्वशी तेषु तेषु रमान्तरेषु उन्मादितासीत् ।] किन्तु...…।]
प्रथमः -सदोषावकाश इव वाक्यशेषः ।
द्वितीयः- आम। ताए वअणं पमादक्खलिदं असि । [आम् । तस्या वचनं प्रमादस्खलितमासीत् ।]
प्रथमः-किमिव।
द्वितीयः-लच्छीभूमिआए वट्टमाणा उव्वसी वारुणीभूमिआए वट्टमाणए नेणआए पुन्छिदा ! नमारद कोकनिया किमिव । [लक्ष्मीभूमिकया वर्चनाना ऊर्वशी वारुणीभूमिकया वर्तमानया मेनकया पृष्टा । समागताः त्रैलोक्यपुरुषाः सकेशवा लोकपालाः ।
तादाख्ये काव्ये उर्वशी तेषु तेषु काव्ये विद्यमानेषु रमान्तरेषु विविधेषु रसेषु उन्मादिता स्खलिता आसीत् । अभिनेतव्ये प्रयोगे उर्वशी सप्रमादा बभूवेति भावः।
स्वयंवरः-पुरा हि रीतिरासीदीदृशी यत् कन्यका स्वीयं पतिं स्वयमेव वृणोतिस्म । तत्र सर्वे कामयितारः कन्यायाः पितुर्गृहे सन्मिलन्ति । तेषु कमपि पूरुषं सा कन्यका स्वीयं भाविनं पतिं वृणोति । वरणानन्तरं सर्वे विवाहविधयः क्रियन्ते । नैतेषु विवाहविधिपु प्रकृतः स्वयंवरविधिरपि अन्यतमः । स्वयं व्रियते वरो यस्मिन्निति स्वयंवरः । अत्र पुनरवधारणे ।
लक्ष्मी:-विष्णोः पत्नी देवदानवैर्मथ्यमानात् सागरात् समुद्भूता चतुर्दशरत्नान्यतमा । वारिणी अपि अनयैव सह निर्गता।
रसः-प्रतिकाव्यं भवति कश्चन रसो विलक्षणानन्दहेतुः केवलं सहृदयैरेव चर्यमाणः चमत्काराधायकः विभावानुभावसञ्चारिभावैर्व्युत्पाद्यमानो भावनाविशेषः। सविस्तरं पुस्तकान्ते वक्ष्यते । किन्तु ...। वाक्यमपूर्णम् ।
प्रथम:-ते वाक्यशेषः अपूर्णमिदं वाक्यम् दोषाय प्रमादाय अवकाशः सम्भवः तेन सहितः सदोषावकाशः इवास्ते । अपूर्णमिदं ते वचः किमपि स्खलितं सूचयतीति भावः ।
द्वितीयः-आम् निश्चये स्मरणे वा । तस्या उर्वश्या वचनं प्रमादेन असावधानतया स्खलितं सम्यगुच्चारितं नासीत् ।
"आम्-ज्ञान विनिश्चये" इति वोपालितः । प्रमादोऽनवधानता ।
प्रथम:--किमिव-कथम्भूतः स प्रमाद इति ।
द्वितीयः-लक्ष्म्याः भूमिका वेषः यस्याः सा तया लक्ष्मीभूमिकया वर्तमाना उर्वशी गृहीतवारुणीवेषया मेनकया पृष्टा । त्रैलोक्यपुरुषाः लोकत्रयगताः पुरुषाः ..