पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
विक्रमोर्वशीये

कतमस्मिंस्ते हृदयाभिनिवेशः इति ।]

 प्रथम: -ततस्ततः ।

 द्वितीयः :-ताए पुरिसोत्तमे त्ति भणिदव्वे पुरूरवसि त्ति णिग्गदा वाणी [नस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी।

 प्रथमः-भवितव्यतानुविधायीनि बुद्धीन्द्रियाणि । स तामभिक्रुद्धो मुनिः ?


केशवेन कृष्णेन सहिताः लोकपालाः देवाः इह समागताः । एषु कतमस्मिन् कस्मिन् ते हृदयस्य अभिनिवेशः संलग्नता।

 भावार्थ:-यदा इन्द्रसभायां लक्ष्मीस्वयंवराख्यं वस्तु प्रयुक्तम् तदा उर्वश्या लक्ष्मीवेशपरिग्रहः कृतः । मेनकया च वारुण्याः । लक्ष्मीवारुण्यो लक्ष्मीस्वयंवराख्यस्य प्रयोगस्य पात्रविशेषौ । स्वयंवरसमये वारुणी तत्र प्रयोगे लक्ष्मीं पृच्छति यत् अत्र सर्व प्रहसितमाराः सुकुमाराः कुमाराः समागताः, अतः कं महानुभावं त्वं स्वीकारेणालञ्चिकीर्षतीति । तदेवाह-यत् लक्ष्मीरूपां उर्वशी वारुणीरूपा मेनकां पृष्टवती यदेषु कतमस्मिन् ते हृदयं सज्यत इति । “भूमिका रचनायां स्यात्" इति विश्वः।

 प्रथम:-ततस्ततः-प्रश्नानन्तरं किं जातमिति-

 द्वितीयः-पुरुषाणामुत्तमो विष्णुस्तस्मिन् पुरुषोत्तमे मे हृदयम् सक्तम् इति भणितव्ये वक्तव्ये तस्या उर्वश्याः वाणी पुरूरवसि विक्रमे मम हृदयम् लग्नमिति निर्गता । भावस्तु-गृहीतनाटकवेषया लक्ष्मीरूपया उर्वश्या तत्र विष्णौ मे हृदयं सज्यते इति वक्तव्ये पुरुरवसीति अन्यदेव प्रोक्तम् । इति प्रमादः ।

अनेन नायिकाया पुरूरवसि अगाधं प्रेम व्यज्यते ।

 प्रथम:-बुद्धीन्द्रियाणि बुद्धिश्च इन्द्रियाणि च तानि बुद्धीन्द्रियाणि बाह्यान्तःकरणानि भवितव्यतायाः भाविनः फलस्य अनुविधायीनि । भाविनं फलमेवानुसरन्ति इन्द्रियाणीति भावः । स मुनिः भरतस्तमभिक्रुद्धः । तस्यै क्रुद्धः किं गुरुरिति पृच्छा।

 तामभिक्रुद्ध इत्यत्र “क्रुधट्ठहेति" सूत्रानुसारं यं प्रति कोपस्तस्य चतुर्थीति न्यायेन तस्यै क्रुद्ध इति भवितव्यम् । किन्तु अभिपदस्य सन्निधानात् अभियोगे द्वितीयापि प्राप्ता । एकतः चतुर्थी प्राप्ता अन्यतो द्वितीया । उभयोर्मध्ये "कारकविभक्तेरुपपदविभक्तिबलीयसी । यथा -मुनित्रयं नमस्कृत्येति बलाबलाविचारतः उपपदविभक्केः द्वितीयाया एव प्राशस्त्यम्"।