नयोः' इत्यमरः । भृतानि संभृतानि मितानि च उच्छिखान्युश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाढ्याद्धनिकात् । 'इभ्य आढ्यो धनी' इत्यमरः । प्रपणो व्यवहारः प्रयोजनमस्य प्रापणिको वणिक् । 'तदस्य प्रयोजनम्' इति ठक् । 'पण्याजीवाः प्रापणिका वैदेहा नैगमाश्च ते । वणिजः' इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालंकारः ॥ ११ ॥
अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥ १२॥
अखिद्यतेति ॥ आसन्नमौन्नत्यात् संनिहितमत एवोदग्रतापं दुःसहातपं रविं दधानेऽपि, अरविन्दधान इति विरोधः । अरविन्दानां धाने निधाने इति परिहारः। धीयतेऽस्मिन्निति धानम् । अधिकरणे ल्युट् । शब्दश्लेषमूलो विरोधालंकारः । यस्य गिरेस्तटे निपीतरसा नितरां पीतमकरन्दा नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमत्तामरसा । 'पङ्केरुहं तामरसम्' इत्यमरः । अत एव मत्ता भृङ्गावलिर्नाखिद्यत न खिन्ना । खिदेदैवादिकात्कर्तरि लङ् । अत्यन्तसूर्यसंनिधानेऽप्यरविन्दाकरविहारान्मधुकरास्तापं नापुरित्यर्थः ॥ १२ ॥
यत्राधिरूढेन महीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ १३ ॥
यत्रेति ॥ यत्र शैले रजतस्य विकारो राजतः । 'प्राणिरजतादिभ्योऽञ्' (४।३।१५४) इत्यञ्प्रत्ययः । स चासौ गण्डशैलश्च । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । उन्निद्राणि विकसितानि पुष्पाण्यक्षीणीवेत्युपमितसमासः । तेषां सहस्रं भजतीति तद्भाजा अधिरूढेनोच्चैर्महीरुहा वृक्षेण सुराधिपेन देवेन्द्रेणाधिष्ठितो यो हस्ती मल्ल इव तस्यैरावतस्य लीलां शोभां दधौ । ऐरावतस्य धावल्यादिति भावः । 'हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके' इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शनालंकारः ॥ १३ ॥
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १४॥
विभिन्नेति ॥ गरुडाग्रजेनारुणेन विभिन्नवर्णा अन्यथाकृतवर्णाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य संबन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' (४।४।७६) इति यत्प्रत्ययः । यत्र शैले वंशकरीरनीलैर्वंशाङ्कुरश्यामै रत्नैः । मरकतैरित्यर्थः । 'वंशाङ्कुरे करीरोऽस्त्री' इत्यमरः । वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपौनरुक्त्यम् । अत एवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः। न विशेषश्चेदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन, पुनः स्वां रुचं निजहरितवर्णमेवानिन्यिरे आनीताः । नयतेर्द्विकर्मकात्प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अत्र विभिन्नवर्णा
इत्येकस्तद्गुणः । रथ्यानां स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकत-