पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
शिशुपालवधे

गुणग्रहणादपरस्तद्गुणस्तदुपजीवीति सजातीययोः संकरः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः ॥ १४ ॥

 यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
 वनं बवाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ १५ ॥

  यत्रेति ॥ यत्र शैले समुन्नमद्भिः समुत्पतद्भिः अम्बुवाहैः उज्झिताभिस्त्यक्ताभिरद्भिर्मुहुः समुन्नं सम्यगुन्नं क्लिन्नम् । सिक्तमित्यर्थः । 'उन्दी क्लेदने' इति धातोः कर्मणि क्तः । 'नुदविद-' (८।२।५६) इत्यादिना निष्ठानत्वम् । विपन्नगा विगतसर्पा न भवन्तीत्यविपन्नगाः । सपन्नगा इत्यर्थः । तेषामविपन्नगानां नगानां वृक्षाणां वनं विषपावकोत्था विषाग्निसमुत्था विपत् आपत् न बबाधे । नित्यं वर्षानुसङ्गाद्विषाग्निक्षोभो वृक्षाणामकिंचित्कर इति भावः ॥ १५ ॥

 फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।
 शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ १६ ॥

 फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्ककरसंपर्कात् कृशानोरिदं कार्शानवमाग्नेयं धाम तेजः फलद्भिरुद्रिद्भिः । अग्निकरसामर्थ्याभिव्यञ्जकैरिति भावः । पतङ्गकान्तैः सूर्यकान्तैः । दृष्टान्तभूतैरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम् । संक्रान्तगुणानित्यर्थः । पात्रगुणादाधारगुणसहकारादाक्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुणोत्कर्षों यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां सर्वत्र संक्रमणाविशेषेऽपि सूर्यकान्तेष्वेव ज्वलनजननदर्शनात् सर्वत्रापि संक्रम्यकारिणां गुणानामाधारगुणसहकारात् कार्यविशेषाधायकत्वमिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्तिरनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलंकारः ॥ १६ ॥

 दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्सयमाततान ।
 क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ १७ ॥

 दृष्टोऽपीति ॥ मुहुर्दृष्टोऽपि स शैलो मुरारेरपूर्वेणादृष्टपूर्वेण तुल्यमपूर्ववत् । 'तेन तुल्यं क्रिया चेत्-' (५।१।११५) इति वतिः । विस्मयमाततान । अतिरमणीयत्वादिति भावः । तथा हि-क्षणे क्षणे प्रतिक्षणम् । वीप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपैतीति यत् , तन्नवत्वोपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणमित्यर्थः । अत्र रमणीयत्वलक्षणस्य वाक्यार्थस्य विस्मये हेतुत्वसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १७ ॥

 उच्चारणज्ञोऽथ गिरां दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
 उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कंधरं दारुक इत्युवाच ॥ १८ ॥

 उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरां वाक्यानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकुशलः । 'आतोऽनुपसर्गे कः' (३।२।३) इति कप्रत्ययः । न

पाठा०-१ "भिमर्षात्'.