सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
शिशुपालवधे

मुद्राह्यते उपन्यस्यत इति यत् । 'उद्वाहितमुपन्यस्तम्' इति वैजयन्ती। सा। तदुद्वहणमित्यर्थः । विधेयप्राधान्यात् स्त्रीलिङ्गत्वम् । वक्तुरुद्वाहयितुः परिचयस्थैर्ये- ऽभ्यासदार्ढ्ये हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । न तु वैदुष्यप्रकटनमिति भावः । 'गुण आम्रेडने' चौरादिकात् ‘ण्यासश्रन्थो युच्' (३।३।१०७) इति युच् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः ॥ ७५ ॥

 संप्रति स्व1मतमुपन्यस्यति-

  प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
  तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥

 प्रक्ज्ञेति ॥ अतोऽस्मात्कारणात् स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामिन्नैश्वर्ये (५।२।१२६) इति निपातः । प्रज्ञोत्साहौ मन्त्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं संपादयितुं यतेत । स्वयमुभयशक्तिमान्भवेदित्यर्थः । कुतः । हि यस्मात्तौ प्रज्ञोत्साहौ उदेष्यन्त्या वर्त्स्य॑न्त्याः जिगीषोरात्मनः संपदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साह- ग्रहणं दृष्टान्तार्थम्् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति बलभद्रापवादः ॥ ७६ ॥

 उत्साहवत्प्रज्ञापि ग्राह्येत्युक्तं तस्याः प्रयोजनमाह-

  सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
  तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥

 सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्ता- मित्यर्थः । अन्यत्र सगेन्दुकाम् । सोपवर्हामित्यर्थः। 'उपधानं विशेषे स्याद्गेन्दुके प्रणयेऽपि च' इति विश्वः । स्थेयसीं स्थिरतरामचपलां, द्रढीयसीं च । स्थिरश- ब्दादीयसुनि 'प्रियस्थिर-' (६४।१५७ ) इत्यादिना स्थादेशः । धियं खट्वयन्ति खट्वां पर्यङ्कं कुर्वन्ति । आश्रयन्तीत्यर्थः । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः' इत्यमरः । 'तत्करोति तदाचष्टे' (ग०) इति णिच् । ते धीरास्तत्र धीखट्वायामनिश- मश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । श्रमः खेदोऽध्वरत्यादेः' इति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः। अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकार- पर्यन्ततया परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिमाणः' इति लक्षणात् ॥ ७७॥

 अथ प्रज्ञाप्रज्ञयोभ्यां वैषम्यमाह-

  स्पृशन्ति शरवत्तीक्ष्णास्तोकमन्तर्विशन्ति च ।
  बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥

 स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृश- न्ति । अन्तः कार्यस्य चान्तरं विशन्ति । अल्पायासेन बहु कार्य साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना स्थूलेन मन्देन, बृहता चाश्मनोपलेन तुल्यमश्मवत् । 'तेन

पाठा०-१ 'स्वगतं'.