पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
द्वितीयः सर्गः ।

तुल्यं क्रिया चेद्वतिः' (५।१।११५)। बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयासं करोति । मूषकग्रह- णाय शिखरिखननं परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा ॥ ७८ ॥

  आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
  महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥

 आरभन्त इति ॥ किंचाज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते । काममत्यन्तं व्यग्राः, त्वरिताश्च भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षित- बुद्धयस्तु महारम्भा महोद्योगा भवन्ति । निराकुला अव्यग्राश्च तिष्ठन्ति 1। पारं गच्छन्तीति भावः ॥७९॥

 अथ प्रज्ञावानपि न प्रमाद्येदित्याह-

  उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
  हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ ८॥

 उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्यं साधयतो- ऽपीत्यर्थः । किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधा- नता' इत्यमरः । अर्थाः प्रयोजनानि नश्यन्ति । तथा हि-शयालुर्निद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच् । मृगान् यातीति मृगयुर्व्याधः । 'मृगयवादयश्च' (उ० ३७) इत्यौणादिकः कुप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयु- र्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपशयो मृगमार्गस्थायिनो व्याधस्या- त्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' (३।३।५६) इत्यच्प्रत्ययः । तत्र तिष्ठतीत्यु- पशयस्थोऽपि मृगान्न हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥८॥

 एवं प्रज्ञाया आवश्यकत्वमुक्तम् , तथोत्साहस्याप्याह-

  उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि
  जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥

 उदेतुमिति ॥ जेतुमिच्छर्जिगीषुरेक एव द्वादशस्वपि राजसु मध्ये द्वादश- स्वादित्येषु दिनकृद्यो दिनकरणे व्याप्रियमाण आदित्यः स इव, ईहामुत्साहमत्यजन् प्रयुञ्जान एव । न तु निरुद्योग इति भावः । उदेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तेरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः । प्रतिमासमादित्यभेदाद्वादशत्वं तच्चैकस्यैव द्वादशात्मकत्वम् , 'द्वादु- शात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजा- नस्तु 'अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥' पञ्चेति शेषः । 'पार्ष्णिग्राहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । असा- रावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥' पाणिग्राहासारः आक्रन्दासारश्चेत्यर्थः । अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः । 'अरेश्च विजिगीषोश्च

पाठा०-१ 'भवन्ति'. ['धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा विष्णुर्दादश उच्यते ।" इति द्वादशादित्या महाभारते आ० ५० ५९।१५½]

ac