देवी-णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो। [निपुणिके ! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः।]
विदूषकः-णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन।]
राजा-मूर्ख !बलादपराधिनं मामापादयसि ।
देवी-णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]
(इति कोपं नाटयिखा प्रस्थिता)
राजा-अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः॥२०॥
देवी-निपुणिके ! शोभनं सुष्ठुरीत्या विदूषकेन आत्मनः प्रियवयस्यः आश्वासितः।
विदूषकः-ननु प्रेक्षस्व! ननु इति अनुनये । प्रियवयस्यः चित्रेण विलक्षणेन भोजनसङ्कीर्तनेनाश्वासितः चित्ररूपिणा भोजनेनाश्वासितः ।
राजा-मूर्ख ! बलाद् मिथ्यैव माम् अपराधिनं कृतापराधं आपादयसि करोषि निश्चिनोषि वा।
देवी-(राजानं प्रति) नास्ति भवतोऽपराधः-किन्तु अहमेव अपराद्धाऽस्मि यत् प्रतिकूलमनिष्टं दर्शनं यस्याः सा एतादृशी भूत्वा भवतः अग्रतः तिष्ठामि । स्वापराधहेतुरयम्, यतः पतिव्रतया पत्युः प्रतिकूलं नाचरणीयम् । इहागमनं च पत्युरनिष्टम् तस्मात् कृतागस्त्वम् स्वीयमेव विज्ञापयति । अत एव इतः गमिष्यामि । ( इति उक्त्वा कोपं नाटवित्वा प्रदर्श्य प्रस्थिता चलिता।)
राजा-अपराधीति।
हे रम्भोरु ! प्रसीद प्रसन्ना भव । कदलीस्तम्भसदृशे वृत्तानुपूर्वे ऊरू जङ्घे यस्याः सा एतादृशि प्रिये ! अहमेवापराधी नाम । संरम्भात् कोपात् विरम । क्रोधं हरेति भावः । सेव्यो जनः कुपितः तदा दासः कथं निरपराधः दोषशून्य: भवितुमर्हति । कथं स्याद्दासो निरपराधी यदि तस्याधिपतिस्तस्मै क्रुद्धः । प्रभोः कदापि समुत्पन्ने तु क्रोधे न दासस्य निरपराधत्वं निश्चेतव्यम् ।
सेव्यः-यस्य सेवा क्रियते, यो वा सेव्यत इति सेव्यः प्रभुः ।
इह "नाम" प्राकाश्यरूपेऽर्थे । अहमपराधी नाम इति अपराधित्वं प्रकाश्यते । अथवा यदि नामपदं अहंपदेन "अहं नामापराधीति" अन्वेति तदा