सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
विक्रमोर्वशीये

 राजा-(उत्थाय ) वयस्य ! नेदमुपपन्नम् । पश्य-

  प्रियवचनकृतोऽपि योषितां
   दयितजनानुनयो रसादृते।
  प्रविशति हृदयं न तद्विदा
   मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥


 राजा-(उत्थाय) वयस्य । इदमुपपन्नम् युक्तम् न, अनुचितमिदमिति भावः । औशीनर्या एतस्मिन् प्रसङ्गे इहागमनम् भूर्जपत्रस्य च तस्याः हस्ते प्राप्तिः, पुनश्च ममानुनयमनादृत्य तस्याः अप्रसन्नाया एव प्रतिनिवर्तनमादि यत्पूर्वं अभूत् तत् सर्वं सामान्यतस्तु असाम्प्रतमेव जातमित्यर्थः । चूर्णकस्थपश्येत्यस्यानुगामी श्लोकः कर्मत्वेनान्वेति । पश्य तर्कय मनाक्-

 प्रियवचनेति-प्रियाणि प्रेमप्रदर्शकाणि च तानि वचनानि तैः कृतोऽपि कृत्रिमो मिथ्या रागः प्रेम तेन योजितः प्रयुक्तः दयितजनेन प्रियेण कृतः अनुनयः सान्त्वनम् रसात् अषितधरागात् ऋते विना तद्विदा कृत्रिमरागविदा योषितां स्त्रीणां हृदयं न प्रविशति हृदयग्राही न भवति यथा कृत्रिमेण रागेण रङ्गेण योजितः मिश्रितः मणिस्तद्विदा मणिकाराणां हृदयं न प्रविशति सन्तोषावहो न भवति ।

 यथा कृत्रिमरागेण रक्तोऽयं मणिरथवा अकृत्रिमेणेति जानन्तो मणिकाराः कृत्रिमरागरक्तेन मणिना प्रसन्ना न भवन्ति तथैव कृत्रिमप्रीत्यभिज्ञाः स्त्रियोऽपि यथार्थरागविसंहतैर्प्रियवचनचाटुशतैः क्रियमाणेन प्रियजनानुनयेन न प्रसीदन्ति इति भावः।

 अत्रापि श्लेषः-कृत्रिमरागयोजित इत्यत्र रागपदम् श्लिष्टम्-योषित्पक्षे तस्य प्रेमवाचकत्वम् । मणिपक्षे अरुणिमा, रक्तत्वं वा रागपदवाच्यम् । तद्विदामित्यत्र तच्छब्देन कृत्रिमरागो गृह्यते। अत्रापि 'योजित' इति पदेन स अनुनयः न स्वयं खाभाविकतयोत्पद्यते किन्तु कथमपि कृत्रिमरागबलेन योजितो भवतीति विशेषार्थं द्योतयितुं णिजन्तप्रयोगालिङ्गनम् । अपिपदं गर्हायाम्-प्रियवचनानां निरर्थकता च प्रदर्शिता।

 योषितामित्यत्र दयितापदमप्रयुज्य योषित्पदग्रहणेन तस्यां प्रियस्य अन्यनायिकाकामुकत्वात् प्रीतिराहित्यम् किन्तु सा तु तस्मिन् रज्यते एव अमुमर्थमुद्दिश्य 'योषति सेवते पतिम् इति योषित्' इति व्युत्पत्तिनिरुक्तं पदं प्रयुक्तम् । तथा च द्वितीयचरणे स्त्रीमनसि तु स्वस्य पत्यौ तदेवोच्चभावनासद्भावात् दयितपदस्वीकारः तथा च प्रेम्णः रागाद् वा ऋते इति प्रयोगमनादृत्य रसादिति पदस्वीकृतिरिह रस्यते रसयति चेति रसः रागस्य परा कोटिरिति व्युत्पत्तिलभ्यं विशेषार्थं द्योतयति ।

 अत्र उपन्यासो नाम प्रतिमुखसन्ध्यङ्गम् । यस्य लक्षणं तावत् 'उपपत्तिकृतो योऽर्थः उपन्यासः स कीर्तितः' इति । अत्र असहजरागप्रदर्शनान्न सा प्रसादमेष्यतीत्युपपन्नार्थनिक्षेपाल्लक्षणसमन्वयः । ।