स चायमासन्नविनाशस्तुभ्यमपि द्रुग्ध्वा पुनस्त्वयैव हत इति युग्मेनाह-
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः६७
अमानवमिति ॥ मनोरयं मानवः । 'तस्येदम्' (४।३।१२०) इत्यण्प्रत्यये पर्यवसानाज्जातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' (३।२।१०१) इति डप्रत्ययः । तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्नमिति विरोधः । स चाभासत्वादलंकार इत्याह- प्रभाविनमिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः। 'आभीक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः । भवन्तमिति शेषः । आत्मनः स्वस्यान्तं करोती- त्यन्तम् । अन्तशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्पचाद्यच् । भाविनं भविष्य- न्तम् । 'भविष्यति गम्यादयः' (३।३।३)। जानन्नपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न मुमोच नामुञ्चदित्यन्वयः । जानतोऽप्यमोचने कारण- माह-मानिनः सदा प्राणात्ययेऽप्यभिमान एवैकं मुख्यं धनं येषां ते । प्राणात्य- येऽपि न मानं मुञ्चन्तीत्यर्थः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६७ ॥
स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति॥६८॥
स्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाश- रथिः । 'अत इञ्' (४।१।९५) इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवते- र्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः अत एव चलन्ति जलानि यस्य स च अत एव आविलश्च तं आबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे । "समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ' इति हलायुधः । 'अभितःपरित:- समयानिकषाहाप्रतियोगेष्वपि' (वा०) इति द्वितीया । हनिष्यति अवधीत् । 'अभिज्ञावचने लृट्' (३।२।११२) इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥ ५८ ॥
अथोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम् ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः६९
अथेति ॥ अथ राक्षसदेहत्यागानन्तरं संप्रति छलनापरः परप्रतारणापरः एष रावणः शैलूषो नटः तस्य भूमिकां रूपान्तरमिव । 'शैलूषो नटभिल्लयोः । भूमिका रचनायां स्यान्मूर्यन्तरपरिग्रहे' इति विश्वः । अपरामुपपत्तिम् । जन्मा- न्तरमित्यर्थः । अवाप्य शिशुपालसंज्ञया तिरोहितात्मा तिरोहितस्वरूपः सन् सोऽपि रावण एव सन्नपि परैरितरैः स न भवतीत्यसः तस्मादन्य एव । 'नम्' (२।२।६) इति नञ् समासः। अत एव 'एतत्तदोः सुलोप-'(६।१।१३२) इत्यादिना न सुलोपः।
पाठा०-१'विनाशस्त्वयैव'. २ 'आविद्ध.' ३'आविद्धानि सेतुबन्धेऽद्रिभिः अभिहतानि'.