(ततः प्रविशतो भरतशिष्यौ)
प्रथमः-सखे पेलब ! अग्निशरणाद्गच्छता महेन्द्रमन्दिरमुपाध्यायेन त्वमासनं ग्राहितः । अहमग्निशरणरक्षार्थं स्थापितः । ततः पृच्छमि गुरोः प्रयोगेण देवपरिषदाराधिता न वेति ।
द्वितीय:-गालव ! ण आणे कहं आराधिता भोदि । तस्सिं उण सरस्सईकिदकव्ववन्धे लच्छीसअंबरे उव्वसी तेसु तेसु रसन्तरेषु उम्माइआ आसि । किन्तु... [गालव ! न जाने कथमाराधिता भवति । तस्मिन् पुनः सरस्वतीकृतकाव्यबन्धे
॥ तृतीयोऽङ्कः॥
सविदूषकस्य राज्ञःद्वितीयाङ्कवस्तुजाते जाते तु मध्याह्नसमये रङ्गभूमितो निष्क्रमानन्तरमिदानीं पेलवगालवनाम्नोः नाट्यशास्त्रपारदृश्वनो भरतमुनेः शिष्ययोर्मुखाभ्याम् राज्ञः पुनरुर्वशीसमागममूचनाय तृतीयाङ्कं प्रारिप्सुस्तत्रभवान् कविराजस्तयोः प्रवेशं तावदाह-
(ततः द्वितीयाङ्कसमाप्तौ भरतभुनेः शिष्यौ प्रविशतः)
प्रथमः-सखे पेलव ! महेन्द्रस्य मन्दिरं भवनं अग्निशरणात् होतव्याग्निगृहात् गच्छता उपाध्यायेन भगवता भरतेन त्वं आसनं स्वीयमृगचर्मासनम् ग्राहितः। अग्निशालातः इन्द्रभवनं गच्छता भरतेन तुभ्यं आसनं प्रदत्तमिति भावः । अहं च अग्निशरणस्याग्निशालायाः रक्षणार्थ स्थापितो नियुक्तः । ततः यतः अहमत्रैव स्थापितः न बहिर्गतः ततः नाहं जानामि किं जातमित्यतः पृच्छामि गुरोः भगवतः भरतस्य तेन कारितेन प्रयोगेण नाट्याभिनयेन देवानां परिषत् सभा आराधिता प्रीणिता सन्तोषिता न वा इति । अत्र पेलवस्य पट्टशिष्यत्वं गम्यते ।
ग्राहित इति णिजन्तप्रयोगः-गृहधातोर्णिच् ।
शरणपदस्य गृहत्वमिति वाच्यम् “शरणं गृहरक्षित्रो" रिति विश्वकोषः । गुरोः प्रयोगेणेत्यनेन गुरुप्रदिष्ठेन प्रयोगेण न तु स्ययमभिनीतेन । वा इति विकल्पे । अत्र गौणे कर्मणि कः "गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । वुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छयेति । यथा वान्यत्र “अयाचितारं नहि देवदेवं अद्रिः सुतां ग्राहयितुं शशाक"।
द्वितीयः :-गालव ! गालवपेलवौ तयोर्भरतशिष्ययोर्नामनी । न जाने कथमाराधिता भवति । देवपरिषदाराधिता न वेति नाहं जाने। किन्तु तस्मिन् प्रयोगे पुनः सरस्वत्या देव्या कृतः काव्ये बन्धो ग्रथनं यस्य तादृशि लक्ष्मीस्वयंवरे