माकृष्टत्वात् कोपरूपस्य भावस्य ध्वनेः बीजं दूराकृष्टत्वम् । 'नाम' यद्यपि वितर्के निश्चये वोपयुज्यते, किन्तु तत्राचार्यमम्मटादिभिः प्रयुक्तं “तस्येति" पाठान्तरं शोभनतरम् । तत्र वुद्धिस्थप्रकारावच्छिन्नस्य रक्षसः शरासनेन स्वस्वामिभावेन सम्वद्धत्वात्सर्वनाम्नस्तस्येत्यस्यावश्यं ग्रहणीयत्वात् । अयमपीत्यत्रापिना धारासारस्य कविना प्राधान्यं गमितम् कुतः "इदं रक्षः" इत्येवं भ्रान्तिनिराकरणे - धारासम्पातस्यापि समभ्यधिकं सत्सहायकत्वम् । यावद् भृशं धाराभिवृष्टिः नाभूत् तावत्तु स राजा वारिधरं निशाचरं मत्वा धाराः इषुसम्पातं व्यभावयत् किन्तु यदा पटुस्तीव्रतरोऽभिवर्षों जातः तदैव शैत्यनार्द्रत्वेन च नेयं बाणसन्ततिः अपि तु वृष्टिरिति यथार्थानुभवः समुद्रुद्धः । कनकस्य निकषे रेखा तद्वत् स्निग्धेति वर्णनात् निकषे कषपाषाणे श्यामे यादृशी कनकरेखा सविशेषं भ्राजन्ती दरीदृश्यते एवमेव कृष्णे रक्षोवक्षसि ऊढायाः ऊर्वश्या अपि भ्रमः । मम उर्वशीति अहम्पदबोध्यस्यात्मनीनवस्याभिव्यक्तिः रतिमतीव पोषयति । यथा सर्वत्र अयमिदमित्यादिपदानि इदन्त्वावच्छिन्नस्य पुरो दृश्यमानस्य दृश्यस्यैदमाकारेणावधारयितुं प्रयुक्तानि एवमेवात्र चरमे चरणेऽपि इयं कनकनिकषेति स्थलेऽपि इयंपदस्यावश्यं देयत्वेऽपि तददानान्न्यूनपदत्वं दोषः अनिवार्य एव, लिङ्गविपरिणामपूर्वकस्याध्याहरणस्यापि नूनमयुक्तत्वादेव ।
पद्यमिदमन्यथाप्यन्वेतुं शक्यम्-अयं सन्नद्धेत्यादि सामान्यतः उभयत्रापि प्रयोक्ष्यमाणानां विशेषणानामुद्देश्यकोटिसन्निविष्टस्येदमाकारस्य विधेयत्वस्वीकारात् परं च तत्र विषयिणः निराकरणपूर्वकं विषयस्योपालम्भात् तद्यथा-अयं सन्नद्धः हन्तुमुद्यतः (यः कोऽपि सः) नवजलधरः, दृप्तनिशाचरो नास्ति । इदं दूरमाकृष्टं (वस्तु) सुरधनुः तस्य रक्षसः शरासनं न विद्यते । अयमपि पटुस्तीव्रः (यत् किमपि अनुभूयते) स धारासम्पात एव बाणपरम्परा न भवितुमर्हति । (इयमपि ) कनकस्य कृषणरेखेव दीप्ता कापि दृश्यते सा तडित् मम प्रिया नेति भावार्थः ॥ इदं प्रत्नैः अवलम्बितमपि व्याख्यानमनतिरुचिरमेव ।
अत्र प्रकरणगतवक्रता-यदुक्तं राजानकेन “यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते । पूर्वोत्तरैरसम्पाद्यः साङ्कादेः कापि वक्रता" यत्राङ्गीरसः यः प्राणरूपः तस्य निष्यन्दः प्रवाहः तस्य काञ्चनस्येव निकषः परीक्षापदविषयः विशेषः कोऽपि निरुपमो लक्ष्यते तत्र काप्यलौकिकी प्रकरणवक्रता यथात्र प्रकृते उन्मत्ताङ्के पुरूरवसः नायिकाविरहजन्यखेदसंभिन्ना रतिरभिव्यज्यमाना विप्रलम्भरसं अङ्गित्वेन परिपुष्णाति । नवजलधरेति पद्यस्य चूर्णके (विभाव्य सकरुणम्) पश्चाच्च कथमित्येव पाठः, किन्तु पुरातनपुस्तकेषु "कथं विप्रलब्धोऽस्मि" इति पाठः स तु रमणीय एवेत्यङ्गईकृतः॥
पुनरत्रेदं विचार्यते यत् सत्यप्यत्र बहुले गुणकदम्बे सहृदयहृदयकण्टकसङ्काश एवैको गुणराशिनाशी दोषः परमसुरभिनीहारसम्भिन्नश्रीखण्डरसमिव सरसपक्वमिदं बत सिकतायते तद्यथेह राक्षसापहृतोर्वशीभ्रान्तिजनकत्वेन सौदा-