उर्वशी-साहु साहु अज्ज ! णाअरोसि । [साधु साधु आर्य ! नागरोऽसि ।]
राजा- श्रृयताम्-
(इति वाचयति)
सामिअ संभावितआ जह अहं तए अमुणिआ
तह अ अणुरत्तस्स मुहअ एअमेअ तुह ।
णवरि अ मे ललिअपारिआअसअणिज्जम्मि
होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥१२॥
[स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री
तथा चानुरक्तस्य सुभग एवमेव तव ।
अनन्तरं च मे ललितपारिजातशयनीये
भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥१२॥]
उर्वशी-साधु साधु-त्वया साधूक्तम् । आर्य ! नागरोऽसि चतुरोऽसि, यदेवं परस्परालम्बनयोः प्रीतिप्रसरः श्रोतुमिष्यते त्वया ।
राजा-श्रृयताम्-यत्र लिखितमिति शेषः ।
(इति वाचयति-यदत्र लिखितं तत् पठति ।)
उर्वशी-सामिअ ----इति-हे स्वामिन् प्राणेश्वर : यथा अहं त्वया अज्ञत्री त्वदीयपीडामजानती सम्भाविता कल्पिता तत्तु हे सुभग : मयि अनुरक्तस्य तव एवमेव सत्यम् । “नितान्तकठिनामिति” (१-११) इति पद्ये प्रतिपादितां मद्वियोगवेदनां भवदीयां अहं न ज्ञातवती अत एव यद् भवता परिकल्पितं यद् मया न ज्ञाता भवेत् भवदीया विरहवेदना इति तत्तु सत्यम् एव । मया तु भवतः मद्विषयका प्रीतिं तु न ज्ञातैव । अनन्तरं ज्ञातायां तु भवद्वेदनायां ललितं सुन्दरं कोमलं यत् पारिजातकुसुमविशेषनिर्मितं शयनीयं शय्या यदर्थमिति एतादृशि मम शरीरे सुखाः मुखशान्तिप्रदाः नन्दनवनवाताः नन्दनाख्ये अमरपुरवने पवमाना अत्यन्तशीतला अपि वाताः शिखीव अग्निरिव दाहका अभवन् । यतःप्रभृति मदनुरागकेन्द्रस्य भवतः नदर्थनेतादृशीं पीडां बोधितवती ततःप्रभृति कुसुमशय्यामधिशयाने मदीयशरीरे नन्दनवने वहन्तोऽपि मन्दमन्दममन्दामोदवन्तोऽपि वाताः अग्निरिव देहदाहकाः समपद्यन्त । इति स्वीयमनुरागं तस्मिन् प्रकाशयन्ती तदीयोपालम्भविषयितां आत्मनो निराचकार । पारिजातेति पदस्वीकारेण सुरद्रुमप्रसूनैः निर्मितेऽपि शयनीये मम विरहव्यथानल्पा आसीदिति भावः ।
शिखीवेत्यत्र दाहकत्वरूपधर्माप्रदानेन धर्मलुप्तोपमालङ्कारः । कुमुमशयनीयत्वप्रदानेन च शरीरस्य शिरीषप्रसूनाधिकसौकुमार्यवत्त्वं व्यक्तम् । नन्दनवनवाता
७ विक्र०