उर्वशी-किं णु संपदं भणिस्सदि ? [किं नु साम्प्रतं भणिष्यति ?]
चित्रलेखा-किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः।]
विदूषकः-दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [ दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]
राजा-समाश्वासनमिति किमुच्यते ।
तुल्यानुरागपिशुनं ललितार्थबन्धं
पत्रे निवेशितमुदाहरणं प्रियायाः।
उत्पक्ष्मलं मम सखे मदिरेक्षणाया-
स्तस्याः समागतमिवाननमाननेन ॥ १३ ॥
अपि शिखीव भवन्तीत्यनेन मदनव्याधिः परः प्रकाशते । नायकस्यावमाननं उत्तमा नायिका न कदापि करिष्यतीति विज्ञापयितुं पूर्वार्धे तया नायकस्य प्रथमस्तावत् सन्देहो यथार्थ इति स्वीकृतम् , अनेन नायिकायाः साधारणत्वेऽप्युत्तमत्वं ध्वनितम् । "णवरि” इति प्राकृतं अनन्तरार्थे रूढम् । अत्र लेखो-"विवक्षितार्थकलिता पत्रिका लेख उच्यते" । भावाभिव्यक्तेरयं प्रथमः प्रकारः । इदं चतुष्पदीच्छन्दः ॥ १२ ॥
उर्वशी-विचारयति । साम्प्रतं इदं पठित्वा किं नु भणिष्यति कथयिष्यति । नु इति वितर्के । अनेनौत्सुक्यातिशयं व्यज्यते ।
चित्रलेखा-किं नु इति सन्देहानपेक्षा । एतेन नायकेन म्लानकमलनालसदृशैः स्वकैरङ्गैः कथितम् एव । यदस्याङ्गानि म्लानानि जातानि तेनास्य क्षीणता प्रकाशिता । इह नायको नूनमन्तःपिहितमदनविकारोऽस्तीति युक्तियुक्तवाक्याभिधानेनाप्रत्यक्षार्थस्य साधनात् विचारो नाम नाटकलक्षणम्-यदुक्तं दर्पणे- "विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम्" इति ।
विदूषकः-दिष्ट्या महद्भाग्यमेवैतत् । यथा बुभुक्षितस्य क्षुधितस्य कृते स्वस्तिवाचनिकमुपहारः भोज्यं वा लब्धं भवेत् , तथैव भवतोऽपि किमपि समाश्वासकारणम् प्रियालिखितमिदं प्रेमपत्रम् मया प्राप्तम् । तत्समाश्वसिहीति भावः । खस्तिवाचनिकं लाभकारी, अनेन इह भोज्यमित्यर्थः ।
राजा-समाश्वासनमिति किमुच्यते । कुतो न भविष्यति सान्त्वनम्- यतः हेतुरेवेदं तस्य । यतः-तुल्येति । हे सखे ! प्रियाया उर्वश्यास्तुल्यः समानो योऽनुरागस्तस्य पिशुनं सूचकम् ; ललितः सुन्दरो योऽर्थः तस्य बन्धः निवेशो वाक्यरचना, वा यस्मिन् तत् रमणीयभावं उदाहरणमुक्तिः अनङ्गलेखो वा पत्रे